तत्र हेतुं हिशब्दसूचितं प्रश्नपूर्वकमाह -
कुत इति ।
खल्वेतस्यैवाक्षरस्योपव्याख्यानमितिवद्विद्याभेदेऽपि प्रकृताकर्षणं स्यादिति शङ्कते -
नन्विति ।
तत्र कारणान्तरादपवादाद्विद्याभेदेऽपि प्रकृते तदभावात्तच्छब्देन प्रकृतग्रहादभेदेन प्रत्यभिज्ञानाद्विद्यैक्यमित्याह -
नैतदिति ।
खल्वेतस्येत्यादि यत्रेत्युक्तम् । कारणान्तरं फलभेदादि । एतदिति प्रकृताकर्षणमुक्तम् । एवमिति तस्य वियैक्यव्यभिचारित्वमिति भेदः । अत्रेति सत्यविद्योच्यते । उभयथा सम्भवो भेदाभेदाभ्यामुपपत्तिः ।
प्रकृते फलसंयोगभेदो भेदोपपादकोऽस्तीत्युक्तं तत्राह -
यत्पुनरिति ।
प्रशंसार्थवादकत्वेनास्य फलविधित्वाभावान्न फलसंयोगभेदसिद्धिरित्याह -
अत्रेति ।
इतश्च फलभेदाद्विद्याभेदो नात्रेत्याह -
अपिचेति ।
विध्युद्देशे फलान्तराश्रुते रात्रिसत्रवत्फले कल्प्ये सत्यगृहीतविशेषतया सर्वस्यापि फलस्य तत्सम्बन्धिताकल्पनान्न फलभेदाद्विद्याभेदाशङ्केत्याह -
अर्थेति ।
अपवादरहितं हेतुमुक्त्वा प्रतिज्ञातं विद्यैक्यमुपसंहरति -
तस्मादिति ।
अवशिष्टं सूत्रावयवं व्याकुर्वन्पूर्वापरवाक्यार्थविशेषणान्येकीकृत्य ध्यानं कार्यमित्याह -
इत्यत इति ।