ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
सैव हि सत्यादयः ॥ ३८ ॥
केचित्पुनरस्मिन्सूत्रे इदं वाजसनेयकमक्ष्यादित्यपुरुषविषयं वाक्यम् , छान्दोग्ये च ‘अथ य एषोऽन्तरादित्ये हिरण्यमः पुरुषो दृश्यते’ (छा. उ. १ । ६ । ६) अथ‘य एषोऽक्षिणि पुरुषो दृश्यते’ (छा. उ. ४ । १५ । १) इति — उदाहृत्य, सैवेयम् अक्ष्यादित्यपुरुषविषया विद्या उभयत्र एकैवेति कृत्वा, सत्यादीन्गुणान् वाजसनेयिभ्यश्छन्दोगानामुपसंहार्यान् मन्यन्ते । तन्न साधु लक्ष्यते । छान्दोग्ये हि ज्योतिष्टोमकर्मसम्बन्धिनी इयं उद्गीथव्यपाश्रया विद्या विज्ञायते । तत्र हि आदिमध्यावसानेषु कर्मसम्बन्धिचिह्नानि भवन्ति — ‘इयमेवर्गग्निः साम’ (छा. उ. १ । ६ । १) इत्युपक्रमे, ‘तस्यर्क्च साम च गेष्णौ तस्मादुद्गीथः’ (छा. उ. १ । ६ । ८) इति मध्ये, ‘य एवं विद्वान्साम गायति’ (छा. उ. १ । ७ । ९) इत्युपसंहारे । नैवं वाजसनेयके किञ्चित् कर्मसम्बन्धि चिह्नम् अस्ति । तत्र प्रक्रमभेदात् विद्याभेदे सति गुणव्यवस्थैव युक्तेति ॥ ३८ ॥

परकीयव्याख्यामुत्थापयति -

केचिदिति ।

तद्दूषयति -

तन्नेति ।

कर्मसम्बन्धिनीत्यत्र कर्म ज्योतिष्टोमस्तदङ्गभूतोद्गीथव्यपाश्रयत्वमेव विद्याया विशदयति -

तत्रेति ।

उद्गीथशब्दवाच्यर्क्सामगेष्णत्वात्परमात्मोद्गीथशब्दवाच्य इत्याह -

तस्मादिति ।

अथ य एषोऽन्तरादित्य इत्यस्यादिमध्यावसान ऋक्सामयोः कर्माङ्गयोः पृथिव्यादिदृष्टिविशिष्टयोर्ध्येयत्वदृष्टेरादित्याक्षिपुरुषविशिष्टकर्माङ्गोद्गीथध्यानं छान्दोग्येऽभीष्टमित्यर्थः ।

वाजसनेयकेऽपि कर्माङ्गावबद्धमेव ध्यानमिष्टमिति न विद्यानानात्वमित्याशङ्क्याह -

नैवमिति ।

नित्यकाम्याग्निहोत्रयोर्धात्वर्थाभेदेऽपि साध्यभेदेन भेदवदुपास्यैक्येऽपि फलभेदेन विद्ययोर्भेदे गुणानुसंहार इत्युपसंहरति -

तत्रेति ॥ ३८ ॥