ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
सैव हि सत्यादयः ॥ ३८ ॥
एकैवेयं सत्यविद्येति । कुतः ? ‘तद्यत्तत्सत्यम्’ (बृ. उ. ५ । ५ । २) इति प्रकृताकर्षणात् । ननु विद्याभेदेऽपि प्रकृताकर्षणम् उपास्यैकत्वादुपपद्यत इत्युक्तम् — नैतदेवम्; यत्र हि विस्पष्टात् कारणान्तरात् विद्याभेदः प्रतीयते, तत्र एतदेवं स्यात् । अत्र तु उभयथा सम्भवे ‘तद्यत्तत्सत्यम्’ इति प्रकृताकर्षणात् पूर्वविद्यासम्बद्धमेव सत्यम् उत्तरत्र आकृष्यत इति एकविद्यात्वनिश्चयः । यत्पुनरुक्तम् — फलान्तरश्रवणाद्विद्यान्तरमिति, अत्रोच्यते — ‘तस्योपनिषदहः … अहम्’ इति च अङ्गान्तरोपदेशस्य स्तावकमिदं फलान्तरश्रवणमित्यदोषः । अपि च अर्थवादादेव फले कल्पयितव्ये, सति विद्यैकत्वे च अवयवेषु श्रूयमाणानि बहून्यपि फलानि अवयविन्यामेव विद्यायाम् उपसंहर्तव्यानि भवन्ति । तस्मात्सैवेयम् एका सत्यविद्या तेन तेन विशेषेणोपेता आम्नाता — इत्यतः सर्व एव सत्यादयो गुणा एकस्मिन्नेवप्रयोगे उपसंहर्तव्याः ॥

तत्र हेतुं हिशब्दसूचितं प्रश्नपूर्वकमाह -

कुत इति ।

खल्वेतस्यैवाक्षरस्योपव्याख्यानमितिवद्विद्याभेदेऽपि प्रकृताकर्षणं स्यादिति शङ्कते -

नन्विति ।

तत्र कारणान्तरादपवादाद्विद्याभेदेऽपि प्रकृते तदभावात्तच्छब्देन प्रकृतग्रहादभेदेन प्रत्यभिज्ञानाद्विद्यैक्यमित्याह -

नैतदिति ।

खल्वेतस्येत्यादि यत्रेत्युक्तम् । कारणान्तरं फलभेदादि । एतदिति प्रकृताकर्षणमुक्तम् । एवमिति तस्य वियैक्यव्यभिचारित्वमिति भेदः । अत्रेति सत्यविद्योच्यते । उभयथा सम्भवो भेदाभेदाभ्यामुपपत्तिः ।

प्रकृते फलसंयोगभेदो भेदोपपादकोऽस्तीत्युक्तं तत्राह -

यत्पुनरिति ।

प्रशंसार्थवादकत्वेनास्य फलविधित्वाभावान्न फलसंयोगभेदसिद्धिरित्याह -

अत्रेति ।

इतश्च फलभेदाद्विद्याभेदो नात्रेत्याह -

अपिचेति ।

विध्युद्देशे फलान्तराश्रुते रात्रिसत्रवत्फले कल्प्ये सत्यगृहीतविशेषतया सर्वस्यापि फलस्य तत्सम्बन्धिताकल्पनान्न फलभेदाद्विद्याभेदाशङ्केत्याह -

अर्थेति ।

अपवादरहितं हेतुमुक्त्वा प्रतिज्ञातं विद्यैक्यमुपसंहरति -

तस्मादिति ।

अवशिष्टं सूत्रावयवं व्याकुर्वन्पूर्वापरवाक्यार्थविशेषणान्येकीकृत्य ध्यानं कार्यमित्याह -

इत्यत इति ।