जीवब्रह्मणोरन्योन्यात्मत्वोक्तिभेदाद्द्विरूपा मतिरनुष्ठेयेत्युक्तम् । सम्प्रति जयतीमाँल्लोकान्हन्ति पाप्मानमिति च फलोक्तिभेदाद्विद्याभेदमाशङ्क्योक्तम् -
सैवेति ।
सत्यविद्यामुदाहरति -
स यो हेति ।
अविशेषेणाधिकारी सर्वनामभ्यामुक्तः । उपास्यप्रसिद्ध्यर्थो हशब्दः । एतदिति बुद्धिस्थमुपास्यं परामृश्यते । तस्य व्यापकत्वमाह -
महदिति ।
यक्षं पूज्यं प्रथमजं भौतिकानां मध्ये प्रथमं जातं सच्च त्यच्चेति सत्त्यं ब्रह्म हिरण्यगर्भाख्यं वेदोपास्ते तस्य लोकजयः फलमित्यर्थः ।
तदेतदक्षरं सत्यमिति स इत्येकमक्षरमित्यादिना सत्यनामविशिष्टमुपासनमुक्तमित्याह -
सनामेति ।
तत्तत्र ब्रह्मणो हृदयात्मत्वे सिद्धे यत्तद्ब्रह्म सत्यं हृदयाख्यं सोऽसावादित्य इति योजना । विशेष्यादित्यवशेन स इत्युक्तम् । तस्य मण्डलमात्रत्वं व्यावर्तयति -
य एष इति ।
तस्यैवाध्यात्मिकत्वमाह -
यश्चेति ।
वाक्यद्वये श्रुतांं सत्यविद्यां विषयीकृत्य फलभेदात्प्रकृताकर्षणाच्च संशयमाह -
तत्रेति ।
विद्याभेदाभेदनिरूपण्द्वारा वाक्यार्थधीहेतूक्तेरत्र पादादिसङ्गतिः ।
पूर्वपक्षे गुणव्यवस्था सिद्धान्ते तदव्यवस्थेत्यभिप्रेत्य पूर्वपक्षयति -
द्वे इति ।
सत्यनामाक्षरत्रयविशिष्टादहरहङ्गुणविशिष्टस्य विलक्षणतया रूपभेदाद्विद्याभेद इत्यर्थः ।
तत्रैव फलसंयोगभेदं हेत्वन्तरमाह -
भेदेनेति ।
तद्यदितिप्रकृताकर्षणाद्ब्रह्मणः सत्यनामाक्षरविशिष्टस्योत्तरत्र स्थानगुणसम्बन्धकथनाद्रूपैक्ये कुतो विद्यानानात्वं, तत्राह -
प्रकृतेति ।
फलभेदस्योक्तत्वान्नित्यकाम्यदर्शपूर्णमासवदनुबन्धाभेदेऽपि विद्यानानात्वमिति भावः ।
विद्याभेदाद्गुणव्यवस्थेति पक्षमनूद्य सैवेति सूत्रावयवेन सिद्धान्तमाह -
एवमिति ।