ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
उपस्थितेऽतस्तद्वचनात् ॥ ४१ ॥
उपस्थिते भोजने अतः तस्मादेव भोजनद्रव्यात् प्रथमोपनिपतितात् प्राणाग्निहोत्रं निर्वर्तयितव्यम् । कस्मात् ? तद्वचनात् । तथा हि — ‘तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’ (छा. उ. ५ । १९ । १) इति सिद्धवद्भक्तोपनिपातपरामर्शेन परार्थद्रव्यसाध्यतां प्राणाहुतीनां विदधाति । ताः अप्रयोजकलक्षणापन्नाः सत्यः, कथं भोजनलोपे द्रव्यान्तरं प्रतिनिधापयेयुः । न च अत्र प्राकृताग्निहोत्रधर्मप्राप्तिरस्ति । कुण्डपायिनामयने हि ‘मासमग्निहोत्रं जुहोति’ इति विध्युद्देशगतोऽग्निहोत्रशब्दः तद्वद्भावं विधापयेदिति युक्ता तद्धर्मप्राप्तिः । इह पुनः अर्थवादगतोऽग्निहोत्रशब्दः न तद्वद्भावं विधापयितुमर्हति । तद्धर्मप्राप्तौ च अभ्युपगम्यमानायाम् , अग्न्युद्धरणादयोऽपि प्राप्येरन् । न च अस्ति सम्भवः । अग्न्युद्धरणं तावत् होमाधिकरणभावाय । न च अयम् अग्नौ होमः, भोजनार्थताव्याघातप्रसङ्गात् । भोजनोपनीतद्रव्यसम्बन्धाच्च आस्य एव एष होमः । तथा च जाबालश्रुतिः ‘पूर्वोऽतिथिभ्योऽश्नीयात्’ इति आस्याधारामेव इमां होमनिर्वृत्तिं दर्शयति । अत एव च इहापि साम्पादिकान्येवाग्निहोत्राङ्गानि दर्शयति — ‘उर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः’ (छा. उ. ५ । १८ । २) इति । वेदिश्रुतिश्चात्र स्थण्डिलमात्रोपलक्षणार्था द्रष्टव्या, मुख्याग्निहोत्रे वेद्यभावात् , तदङ्गानां च इह सम्पिपादयिषितत्वात् । भोजनेनैव च कृतकालेन संयोगात् न अग्निहोत्रकालावरोधसम्भवः । एवमन्येऽपि उपस्थानादयो धर्माः केचित्कथञ्चित् विरुध्यन्ते । तस्माद्भोजनपक्ष एव एते मन्त्रद्रव्यदेवतासंयोगात् पञ्च होमा निर्वर्तयितव्याः । यत्तु आदरदर्शनवचनम् , तत् भोजनपक्षे प्राथम्यविधानार्थम् । न ह्यस्ति वचनस्य अतिभारः । न तु अनेन अस्य नित्यता शक्यते दर्शयितुम् । तस्मात् भोजनलोपे लोप एव प्राणाग्निहोत्रस्येति ॥ ४१ ॥

तत्र प्रतिज्ञां विभजते -

उपेति ।

पूर्वोऽतिथिभ्योऽश्नीयादितिश्रुत्या विशिनष्टि -

प्रथमेति ।

भोजनाभावे तत्प्रयुक्तद्रव्याभावेऽपि स्वतन्त्रद्रव्येण प्राणाग्निहोत्रं निर्वर्त्यमिति शङ्कते -

कस्मादिति ।

सौत्रं हेतुमादत्ते -

तदिति ।

तद्धोमीयमिति तच्छब्देन प्रकृताकाङ्क्षेण स्वोक्तिपर्यवसानार्थं यद्भक्तं प्रथममागच्छेदिति संनिहितं भोजनार्थं भक्तं गमयितव्यमिति न स्वतन्त्रद्रव्यं प्रयोक्तव्यं तच्छब्दविरोधादिति व्याचष्टे -

तथाहीति ।

सिद्धस्य प्रमितस्यानन्तरप्रकृतस्यार्थस्य यथा तच्छब्देन परामर्शस्तथा भक्तस्य भोजनार्थमुपनिपातो नामागमनं तस्य यस्तच्छब्देन परामर्शस्तेन परार्थं भोजनार्थं यद्भक्तं द्रव्यं तेन साध्यतां निर्वर्त्यतामिति यावत् ।

भोजनार्थागतभक्तद्रव्योद्देशेन तद्धोमीयमित्याहुतिविधाने फलितमाह-

ता इति ।

अाहवनीयाभावे होमाभाववदामिक्षार्थदध्यानयनाभावे वाजिनाभाववच्चोद्देश्याभावे सत्युपादेयस्याप्रवृत्तेर्भोजनार्थद्रव्यलोप एव प्राणाग्निहोत्रस्येत्यर्थः ।

यत्त्वग्निहोत्रशब्दात्तद्धर्मप्राप्तौ भक्तद्रव्यकतागुणविधानार्थं तद्यद्भक्तमित्यादि वाक्यमिति, तत्राह -

नचेति ।

अर्थवादस्थाग्निहोत्रशब्दस्य किञ्चित्सादृश्यमादाय स्तावकत्वेनापि सम्भवान्न तद्वशात्प्राणाग्निहोत्रे नैयमिकाग्निहोत्रधर्मप्राप्तिरित्यर्थः ।

कौण्डपायिनवदित्युक्तं विघटयति -

कुण्डेति ।

दार्ष्टान्तिके प्रागुक्तमेव वैषम्यं विशदयति -

इहेति ।

प्राणाग्निहोत्रं सप्तम्यर्थः ।

विपक्षे दोषमाह -

तद्धर्मेति ।

तेषामपि प्राप्तौ का हानिः, तत्राह -

नचेति ।

असम्भवमेव तेषां साधयति -

अग्नीति ।

अग्न्याधारहोमाभावात्प्राणाग्निहोत्रे नाग्न्युद्धरणसिद्धिरित्यर्थः ।

अस्तु प्रस्तुतेऽपि तदर्थमेवाग्न्युद्धरणं नेत्याह -

नचेति ।

आहुतीनामग्न्याधारत्वाभावे युक्त्यन्तरमाह -

भोजनेति ।

तर्हि किमिहाहुतीनामधिकरणं तदाह -

आस्य इति ।

प्राणाग्निहोत्रे होमाधिकरणमास्यमेवेत्यत्र श्रुत्यन्तरमाह -

तथाचेति ।

आहुतीनामास्याधारत्वे प्राणाग्निहोत्रेऽग्निहोत्रशब्दान्नैयमिकाग्निहोत्रधर्माप्राप्तौ च गमकमाह -

अत इति ।

तद्धर्मप्राप्तौ मुख्यानामेव सम्भवात्सम्पादनवैयर्थ्यमित्यर्थः ।

उर एव वेदिरित्यत्रावान्तरविशेषमाह -

वेदीति ।

अत्रेति प्राणाग्निहोत्रोक्तिः । वेदिकरणस्यापि सम्पादनार्थमितराङ्गवदिह सङ्कीर्तनं किं न स्यात् , तत्राह -

मुख्येति ।

दर्शपूर्णमासवन्मुख्येऽग्निहोत्रे वेदिकरणाभावेऽपि प्रकृते ध्यानार्था वेदिरुच्यतामित्याशङ्क्याह -

तदङ्गानां चेति ।

अग्निहोत्रवदग्न्युद्धरणायोगमुक्त्वा कालद्वयावरोधोऽपि नास्तीत्याह -

भोजनेनेति ।

अग्न्युद्धरणादावुक्तान्यायमतिदिशति -

एवमिति ।

आदिशब्देन परिस्तरणादयो गृह्यन्ते ।

सिद्धान्तसूत्रार्थमुपसंहरति -

तस्मादिति ।

धर्मलोपमपि श्रुतिरसहमाना सुतरां न सहते धर्मिलोपमित्युक्तमनूद्य दूषयति -

यत्त्विति ।

धर्मिलोपाभावपक्षे धर्मोऽपि न लुप्यते न चैतावता धर्मिणो नित्यतेत्यर्थः ।

अतिथिभोजनोत्तरकालता स्वामिभोजनस्य श्रुतिस्मृतिसिद्धा तत्कथं प्राथम्यविधानं, तत्राह -

नहीति ।

प्राणाग्निहोत्रातिरिक्तविषयं स्वामिभोजनस्योत्तरकालत्वविधानमित्यर्थः ।

प्राणाग्निहोत्रस्य प्राथम्ये कथमागन्तुकत्वं, तत्राह -

न त्विति ।

अनेन प्राथम्यविधानेनेति यावत् । अस्य प्राणाग्निहोत्रस्येत्यर्थः । तस्य नित्यतां विना प्राथम्यसिद्धेरुक्तत्वादिति भावः ।

आदरोक्तेरन्यथासिद्धौ फलितमाह -

तस्मादिति ।

प्रतिनिधिन्यायो नावतरतीति फलितं वक्तुमितीत्युक्तम् ॥ ४१ ॥