ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् ॥ ४२ ॥
सन्ति कर्माङ्गव्यपाश्रयाणि विज्ञानानि — ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ (छा. उ. १ । १ । १) इत्येवमादीनि । किं तानि नित्यान्येव स्युः कर्मसु , पर्णमयीत्वादिवत्; उत अनित्यानि, गोदोहनादिवदिति विचारयामः । किं तावत्प्राप्तम् ? नित्यानीति । कुतः ? प्रयोगवचनपरिग्रहात् — अनारभ्याधीतान्यपि हि एतानि उद्गीथादिद्वारेण क्रतुसम्बन्धात् क्रतुप्रयोगवचनेनैव अङ्गान्तरवत् संस्पृश्यन्ते । यत्तु एषां स्ववाक्येषु फलश्रवणम् — ‘आपयिता ह वै कामानां भवति’ (छा. उ. १ । १ । ७) इत्यादि, तद्वर्तमानापदेशरूपत्वादर्थवादमात्रमेव, अपापश्लोकश्रवणादिवत् , न फलप्रधानम् । तस्मात् यथा ‘यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति’ इत्येवमादीनाम् अप्रकरणपठितानामपि जुह्वादिद्वारेण क्रतुप्रवेशात् प्रकरणपठितवत् नित्यता, एवमुद्गीथाद्युपासनानामपीत्येवं प्राप्ते ब्रूमः —

वैश्वानरविद्याङ्गप्राणाहुतीनामनित्यत्वोक्तिप्रसक्त्या कर्माङ्गसङ्गिनामपि ज्ञानानामनित्यत्वमाह -

तन्निर्धारणेति ।

अङ्गावबद्धोपासनानि विषयत्वेनोपन्यस्यति -

सन्तीति ।

उभयविधदृष्टान्तदृष्ट्या संशयमाह -

किमिति ।

यथा द्रव्यसंस्कारकर्मसु क्रत्वर्थेषु फलश्रुतेरर्थवादत्वादगत्या रात्रिसत्राणां विपरिणामेऽपि प्रकृतेषु क्रतूपकारस्य सिद्धात्वाद्विपरिणामायोगात्क्रतूपकारद्वारा पर्णमयीत्वं प्रयाजादिवत्तत्र नित्यमिष्टं तथैतान्यङ्गसङ्गीन्युपासनानि कर्मसु नित्यान्येवेत्येको विकल्प्यः । यथा प्राकृताप्प्रणयनाश्रयो गोदोहनोपरागः पशुभ्यो विधीयते यथा च कांस्योपरागस्तदाश्रयो ब्रह्मवर्चसफलोऽभिलप्यते बैल्वश्चान्नाद्यफलो यूपाश्रयो दृश्यते तथैतान्युपासनानि कर्मस्वनित्यानीति विकल्पान्तरम् । अत्र चाङ्गाश्रितोपास्तीनां क्रतुषु नित्यत्वानित्यत्वनिरूपणद्वारा वाक्यार्थधीहेतुनिरूपणात्पादादिसङ्गतिः । पूर्वपक्षे यथोक्तोपास्तीनां क्रतुषु पर्णतादिवदावश्यकत्वम् ।

सिद्धान्ते तद्राहित्यमङ्गीकृत्य विमृशति -

किमिति ।

अनित्यभोजनाश्रितप्राणाग्निहोत्रानित्यत्ववन्नित्यकर्माङ्गाश्रितोपास्तीनां नित्यतेति पूर्वपक्षयति -

नित्यानीति ।

क्रतुप्रकरणापाठात्प्रयोगवचनापरिग्रहादुपास्तीनां नास्ति क्रतुषु नित्यतेति शङ्कते -

कुत इति ।

अव्यभिचरितक्रतुसम्बद्धजुहूद्वारा पर्णतावदुद्गीथादिद्वारेणोपास्तीनामपि क्रतुसम्बन्धात्प्रयोगवचनपरिग्रहादमूषां क्रतुषु नित्यतेत्याह -

प्रयोगेति ।

क्रत्वङ्गताप्रयोगवचनपरिग्रहयोरन्योन्याश्रयत्वात्प्रकरणान्तरत्वाच्च नोपास्तीनां तत्परिग्रहः स्यादित्यशङ्क्याह -

अनारभ्येति ।

अङ्गान्तरं पर्णमयीत्वादि ।

उपास्तीनां फलान्तरश्रुतेरस्ति स्वातन्त्र्यमित्याशङ्क्याह -

यत्विति ।

क्रतूपकारद्वारेण व्यवहितफलोपादानादव्यवहितश्रुतफलस्य साध्यत्वविपरिणामः श्रेयानित्यपापश्लोकश्रुतेरपि फलविधित्वमेवेत्याशङ्क्याह -

नेति ।

क्वचिदगत्या विपरिणामेऽपि प्रकृते कर्माङ्गत्वं गतिरिति न विपरिणामसिद्धिरित्यर्थः ।

अङ्गाश्रितोपासनानि प्रयोगवचनेन क्रत्वङ्गतयोपादेयानि साध्यफलोक्तिशून्यत्वे सति क्रत्वङ्गसङ्गितया विहितत्वात्पर्णमयीत्वादिवदिति मत्वोपसंहरति -

तस्मादिति ।

एवमादीनामित्यादिशब्देन यदाऽङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते यत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियत इत्यादि गृह्यते । जुह्वादिद्वारेणेत्यत्रादिपदेन कर्तृग्रहणम् ।

उद्गीथाद्युपासनानां कर्मसु नित्यत्वादविदुषो न कर्मेति प्राप्तमनूद्य सिद्धान्तयति -

एवमिति ।