ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् ॥ ४२ ॥
तन्निर्धारणानियम इति । यान्येतानि उद्गीथादिकर्मगुणयाथात्म्यनिर्धारणानि — रसतमः, आप्तिः, समृद्धिः, मुख्यप्राणः, आदित्यः — इत्येवमादीनि, नैतानि नित्यवत् कर्मसु नियम्येरन् । कुतः ? तद्दृष्टेः । तथा हि अनियतत्वमेवंजातीयकानां दर्शयति श्रुतिः — ‘तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद’ (छा. उ. १ । १ । १०) इत्यविदुषोऽपि क्रियाभ्यनुज्ञानात् । प्रस्तावादिदेवताविज्ञानविहीनानामपि प्रस्तोत्रादीनां याजनाध्यवसानदर्शनात् — ‘प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि’ (छा. उ. १ । १० । ९) ‘तां चेदविद्वानुद्गास्यसि’ (छा. उ. १ । १० । १०) ‘तां चेदविद्वान्प्रतिहरिष्यसि’ (छा. उ. १ । १० । ११) इति च । अपि च एवंजातीयकस्य कर्माङ्गव्यपाश्रयस्य विज्ञानस्य पृथगेव कर्मणः फलम् उपलभ्यते — कर्मफलसिद्ध्यप्रतिबन्धः तत्समृद्धिः अतिशयविशेषः कश्चित् — ‘तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद । नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ (छा. उ. १ । १ । १०) इति । तत्र ‘नाना तु’ इति विद्वदविद्वत्प्रयोगयोः पृथक्करणात् , ‘वीर्यवत्तरम्’ इति च तरप्प्रत्ययप्रयोगात् विद्याविहीनमपि कर्म वीर्यवदिति गम्यते । तच्च अनित्यत्वे विद्याया उपपद्यते । नित्यत्वे तु कथं तद्विहीनं कर्म वीर्यवदित्यनुज्ञायेत । सर्वाङ्गोपसंहारे हि वीर्यवत्कर्मेति स्थितिः । तथा लोकसामादिषु प्रतिनियतानि प्रत्युपासनं फलानि शिष्यन्ते — ‘कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च’ (छा. उ. २ । २ । ३) इत्येवमादीनि । न चेदं फलश्रवणम् अर्थवादमात्रं युक्तं प्रतिपत्तुम् । तथा हि गुणवाद आपद्येत । फलोपदेशे तु मुख्यवादोपपत्तिः । प्रयाजादिषु तु इतिकर्तव्यताकाङ्क्षस्य क्रतोः प्रकृतत्वात् तादर्थ्ये सति युक्तं फलश्रुतेरर्थवादत्वम् । तथा अनारभ्याधीतेष्वपि पर्णमयीत्वादिषु — न हि पर्णमयीत्वादीनामक्रियात्मकानाम् आश्रयमन्तरेण फलसम्बन्धोऽवकल्पते । गोदोहनादीनां हि प्रकृताप्प्रणयनाद्याश्रयलाभादुपपन्नः फलविधिः । तथा बैल्वादीनामपि प्रकृतयूपाद्याश्रयलाभादुपपन्नः फलविधिः । न तु पर्णमयीत्वादिषु एवंविधः कश्चिदाश्रयः प्रकृतोऽस्ति; वाक्येनैव तु जुह्वाद्याश्रयतां विवक्षित्वा फलेऽपि विधिं विवक्षतो वाक्यभेदः स्यात् । उपासनानां तु क्रियात्मकत्वात् विशिष्टविधानोपपत्तेः उद्गीथाद्याश्रयाणां फले विधानं न विरुध्यते । तस्मात् यथा क्रत्वाश्रयाण्यपि गोदोहनादीनि फलसंयोगादनित्यानि, एवमुद्गीथाद्युपासनान्यपि इति द्रष्टव्यम् । अत एव च कल्पसूत्रकारा नैवंजातीयकान्युपासनानि क्रतुषु कल्पयांचक्रुः ॥ ४२ ॥

प्रतिज्ञां विभजते -

यानीति ।

नित्यपर्णमयीत्वादिवदित्येतदनुमानतो नियमे निवेदिते नानियमप्रतिज्ञेति शङ्कते -

कुत इति ।

तत्र सूत्रपदमवतारयति -

तद्दृष्टेरिति ।

तस्यानियमस्य दृष्टेरिति व्याचक्षाणः श्रौतैर्लिङ्गैर्विद्यानामनङ्गत्वसाधनैरनुमानं बाध्यमित्याह -

तथाहीति ।

तेनेत्योङ्काराख्यमक्षरमुक्तम् । एतदक्षरमुद्गीथावयवभूतमेवं रसतमादिगुणकं यो वेद यश्च न तथा तावुभावपि ज्ञाज्ञौ कर्म कुरुत इति योजना ।

विद्यायाः कर्माङ्गत्वानियमे लिङ्गान्तरमाह -

प्रस्तावादीति ।

‘तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यति’ इति चाक्रायणेनाक्षेपकरणादविद्वत्ता प्रस्तोत्रादेः सिद्धेत्यर्थः ।

उद्गीथाद्युपास्तीनां पृथक्फलश्रवणादपि न कर्माङ्गतेत्यवशिष्टसूत्रावयवं व्याचष्टे -

अपिचेति ।

ज्ञानाभावे कर्मफलप्रतिबन्धे ज्ञानस्य कर्माङ्गता स्यादित्याशङ्क्याह -

तदिति ।

कर्मफलस्य वीर्यवत्तरत्वं ज्ञानफलं तदभावेऽपि वीर्यवदेव कर्मेत्यर्थः ।

फलभेदे मानमाह -

तेनेति ।

पूर्वपक्षमुपन्यस्य श्रुतिः स्वयमेव तुशब्देन निरस्यति -

नाना त्विति ।

भिन्नफलत्वं नानात्वम् । दृष्टं हि मणिविक्रये शबरवणिजोर्ज्ञानभावाभावाभ्यां फलवैलक्षण्यम् । तस्माद्यदेव कर्म विद्यया प्रकृतोद्गीथाद्यर्थया करोति श्रद्धयास्तिक्यबुद्ध्या तथोपनिषदा तत्तद्देवताध्यानेनेत्यर्थः ।

श्रुतेस्तात्पर्यमाह -

तत्रेति ।

किं तावता ते सिद्धं, तत्राह -

तच्चेति ।

विद्याहीनस्य कर्मणो वीर्यवत्त्वं कर्मणि तदनित्यत्वगमकमिति व्यतिरेकतः स्फुटयति -

नित्यत्वे त्विति ।

अङ्गिमात्रस्य फलं वीर्यवत्त्वमङ्गसहितस्य तु वीर्यवत्तरत्वमित्यनुज्ञोपपत्तिमाशङ्क्याह -

सर्वेति ।

कर्मसमृद्ध्यतिरिक्तमपि फलं विद्यायाः श्रुतं ततोऽपि तस्या न कर्माङ्गतेत्याह -

तथेति ।

लोकसामादिषु लोकदृष्ट्या सामाद्युपासनेष्विति यावत् । कल्पन्ते भोगाय समर्था भवन्त्यस्मै विदुषे लोका भोगभूमयो भूमेरुपरिष्टात्ततोऽधस्ताच्च व्यवस्थिता ऊर्ध्वा आवृत्ताश्चेत्युक्ताः ।

आपयिता ह वै कामानमित्यादेरर्थवादत्वान्न च फलप्रधानतेत्युद्गीथाद्युपास्तीनां कर्मसु नित्यत्वोक्तिरित्याशङ्क्याह -

नचेति ।

अर्थवादमात्रत्वे फलश्रुतेर्विधेयप्राशस्त्यलक्षणयात्यन्तपरोक्षा वृत्तिः स्यात् । फलपरत्वे तु वर्तमानापदेशिनोऽपि साक्षात्फलप्रतीतेर्मुख्यवादसिद्धिः ।

ततो मुख्ये सम्भवति लक्षणाश्रयणमयुक्तमित्याह -

तथाहीति ।

तर्हि प्रयाजादिष्वपि फलश्रुतेर्नार्थवादमात्रत्वं, तत्राह -

प्रयाजादिष्विति ।

दर्शपूर्णमासादिप्रकरणस्थत्वेन प्रयाजादीनां तदङ्गत्वान्न पृथक्फलवत्त्वमिति तत्फलश्रुतेरर्थवादतेत्यर्थः ।

तर्हि पर्णमयीत्वादिषु प्रकरणाभावात्पृथक्फलवत्त्वसिद्धेर्न फलश्रुतेरर्थवादमात्रत्वं, तत्राह -

तथेति ।

किं तेषां साक्षादेव फलवत्त्वं किंवा क्रतुद्वारेति विकल्प्याद्यं दुषयति -

नहीति ।

द्वितीये क्रतोर्द्रव्यसाकाङ्क्षत्वात्पर्णमयीत्वस्य च पुमर्थत्वाय तद्योगापेक्षत्वाज्जुहूप्रकृतिद्रव्यार्पकवाक्यात्क्रतुयोगे पृथक्फलवत्त्वायोगादुक्तफलश्रुतेरर्थवादतेति भावः ।

गोदोहनादीनामपि तर्हि द्रव्यत्वात्पर्णमयीत्वादिवत्क्रतुसम्बन्धान्न पृथक्फलवत्त्वं, तत्राह -

गोदोहनेति ।

तस्मिन्सीदेतिमन्त्रपदानां साकाङ्क्षत्वेऽपि स्योनं ते सदनमित्यादीनामाकाङ्क्षाभावान्मिथः सम्बन्धाभाववद्गोदोहनकांस्यादीनां साकाङ्क्षत्वेऽपि प्रणयनादेश्चमसयूपाद्याश्रयलाभादाकाङ्क्षाभावाद्वाक्यीयक्रतुसम्बन्धासिद्धेस्तादर्थ्येनाविधेयत्वाद्युक्तं पृथगेव फलमुद्दिश्य विधानमित्यर्थः ।

बैल्वमन्नाद्यकामस्य यूपं कुर्यात्खादिरं वीर्यकामस्येत्यादिषु फले विधानवत्पर्णमयीत्वादिष्वपि स्यादित्याशङ्क्याह -

तथेति ।

बैल्वखादिरदध्यादीनामुपपन्नः फले विधिरिति सम्बन्धः ।

तत्र हेतुमाह -

प्रकृतेति ।

तेषु प्रकृतक्रतुसम्बन्धियूपहोमादिराश्रयोऽस्ति प्रत्यक्षविधिश्रुतेः साक्षात्कर्मिवादयुक्तफलश्रुतेश्च युक्तस्तेषां फले विधिरित्यर्थः ।

पर्णमयीत्वादिषु वैषम्यमाह -

नत्विति ।

एवंविधो यूपादितुल्यस्तेषामनारभ्याधीतत्वादित्यर्थः ।

ननु पर्णमयीत्वादीनां विना प्रकरणं वाक्यादेव फले विधिः स्यान्नेत्याह -

वाक्येनेति ।

पर्णतादीनां जुह्वादिद्वारा क्रत्वाश्रयताया वाक्यीयत्वात्तत्र वाक्यतात्पर्यकल्पने फलसम्बन्धप्रतिपादने च तत्कल्पने तात्पर्यभेदाद्वाक्यभेदापातान्न युक्तस्तेषु फले विधिरित्यर्थः ।

पर्णमयीत्वादिषु फलश्रुतेरर्थवादत्वमुपपाद्योद्गीथाद्युपासनेषु तेभ्यो वैषम्यमाह -

उपासनानां त्विति ।

तासां व्यापाररूपत्वादव्यापारात्मकपर्णतादिभ्यो वैलक्षण्यात्फलवत्त्वेऽपि च विधानसिद्धेः स्वर्गकामो यजेतेत्यादिवद्वाक्यभेदाभावाद्युक्तं फलविधानमित्यर्थः ।

प्रस्तुतोपास्तीनां प्रकरणादिना क्रत्वर्थाश्रिततायाः सिद्धत्वात्तदाश्रयणेन गोदोहनादिवद्विशिष्टफलोद्देशेन विधानसम्भवे फलितमुपसंहरति -

तस्मादिति ।

उद्गीथादिविद्यानां पर्णतादिवत्कर्माङ्गत्वाभावे लिङ्गान्तरमाह -

अत इति ।

अङ्गत्वाभावादेवेति यावत् । तथाच विदुष इवाविदुषोऽपि कर्माधिकारोऽस्तीति भावः ॥ ४२ ॥