ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ४४ ॥
वाजसनेयिनोऽग्निरहस्ये ‘नैव वा इदमग्रे सदासीत्’ इत्येतस्मिन्ब्राह्मणे मनोऽधिकृत्य अधीयते — ‘तत्षट्‍त्रिंशत्सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चितः’ इत्यादि । तथैव ‘वाक्चितः प्राणचितश्चक्षुश्चितः श्रोत्रचितः कर्मचितोऽग्निचितः’ इति पृथगग्नीन् आमनन्ति साम्पादिकान् । तेषु संशयः — किमेते मनश्चिदादयः क्रियानुप्रवेशिनः तच्छेषभूताः, उत स्वतन्त्राः केवलविद्यात्मका इति । तत्र प्रकरणात् क्रियानुप्रवेशे प्राप्ते, स्वातन्त्र्यं तावत्प्रतिजानीते — लिङ्गभूयस्त्वादिति । भूयांसि हि लिङ्गानि अस्मिन्ब्राह्मणे केवलविद्यात्मकत्वमेषामुपोद्बलयन्ति दृश्यन्ते — ‘तद्यत्किञ्चेमानि भूतानि मनसा सङ्कल्पयन्ति तेषामेव सा कृतिः’ इति, ‘तान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते’ इति च एवंजातीयकानि । तद्धि लिङ्गं प्रकरणाद्बलीयः । तदप्युक्तं पूर्वस्मिन्काण्डे — ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’ (जै. सू. ३ । ३ । १४) इति ॥ ४४ ॥

वायुविद्योक्त्यनन्तरं साम्पादिकाग्निविद्याचिन्तामारभते -

लिङ्गेति ।

साम्पादिकानग्नीन्क्रियान्नकरणस्थान्मनश्चिदादीन्विषयत्वेनोपन्यस्यति -

वाजसनेयिन इति ।

उत्पत्तेः प्रागिदं सर्वं नैव सदासीन्नाप्यसदित्युपक्रम्य मनसः प्रादुर्भावमुक्त्वा तदात्मानमैक्षतेतीक्षणपूर्वकं तन्मन आत्मनोऽग्नीनपश्यदिति मनोऽधिकृत्य पठन्तीत्यर्थः ।

पुरुषस्यायुष्ट्वेन क्लृप्तशतवर्षान्तर्गतषट्त्रिंशत्सहस्राहोत्रावच्छिन्नैर्मनोवाक्प्राणचक्षुःश्रोत्रत्वक्कायवृत्तिनिचयैरिष्टकात्वेन भाव्यमानैश्चीयमानान्साम्पादिकानग्नीन्वदन्तीत्याह -

तदिति ।

अर्कानर्चनीयान्मनोमयान्मनोवृत्तिभावितत्वाद्वागादिवृत्तिभिरिष्टकात्वेन भाविताभिश्चीयन्त इति वाक्चिदादीनग्नीनात्मनो वागादयोऽप्यपश्यन्नित्याह -

तथैवेति ।

क्रत्वर्थत्वपुरुषार्थत्वविनियोजकमानदृष्ट्या संशयमाह -

तेष्विति ।

केवलविद्यात्मत्वेन पुरुषार्थत्वसमर्थनद्वारा वाक्यार्थधीहेतोरेवोक्तेरत्र पादादिसङ्गतिः । पूर्वपक्षे क्रियार्थानामग्नीनां क्रियात्वं सिद्धान्ते पुमर्थानां तेषां केवलविद्यात्मत्वेन पुरुषार्थत्वसमर्थनद्वारा वाक्यार्थधीहेतोरेवोक्तेरत्र पादादिसङ्गतिः ।

पूर्वपक्षे क्रियार्थानामग्नीनां क्रियात्वं सिद्धान्ते पुमर्थानां तेषां केवलविद्यामयत्वमित्यङ्गीकृत्य सिद्धान्तमुपक्रमते -

स्वातन्त्र्यमिति ।

सूत्राक्षराणि योजयति -

भूयांसीति ।

सर्वाण्यपीमानि भूतानि यत्किमपि मनसा सङ्कल्पयन्ति तेषामेवाग्नीनां सा कृतिः करणमित्येतत् प्रकृताग्नीनां स्वातन्त्र्येण भावनामयत्वे लिङ्गम् ।

नहि क्रियाङ्गं यत्किञ्चित्करणे सिध्यति चोदनैकलभ्यत्वादित्याह -

तद्यदिति ।

एवंविदे स्वपते जाग्रतेऽपि तानेतानग्नीन्भूतानि सर्वाणि सर्वदा चिन्वन्तीति लिङ्गान्तरं नहि कर्माङ्गं सर्वदा सर्वैरनुष्ठीयते प्रतिनियतदेशकालनिमित्तेषु चोदितत्वादित्याह -

तानिति ।

कार्यकरणव्यापारैः षट्त्रिंशत्सहस्राहोरात्रावच्छिन्नैरिष्टकात्वेन भावितैरेतैः सम्पाद्यन्ते । तत्रेष्टकास्वग्निषु च सङ्ख्याधिक्यमग्नीनां केवलविद्यात्वे लिङ्गम् ।

नहि क्रियाङ्गत्वे प्रसिद्धसङ्ख्यातिरेकसिद्धिरिति मत्वाह -

एवमिति ।

प्रकरणादेषां क्रियाङ्गत्वं सिद्धं लिङ्गाच्च स्वातन्त्र्यं तेन संशयः स्यादित्याशङ्क्याह -

तद्धीति ।

प्रमाणत्वाविशेषे कुतो बलाबलव्यवस्थेत्याशङ्क्याह -

तदपीति ॥ ४४ ॥