ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
पूर्वविकल्पः प्रकरणात्स्यात्क्रिया मानसवत् ॥ ४५ ॥
नैतद्युक्तम् — स्वतन्त्रा एतेऽग्नयः अनन्यशेषभूता इति । पूर्वस्य क्रियामयस्य अग्नेः प्रकरणात् तद्विषय एव अयं विकल्पविशेषोपदेशः स्यात् , न स्वतन्त्रः । ननु प्रकरणाल्लिङ्गं बलीयः — सत्यमेवमेतत् । लिङ्गमपि तु एवंजातीयकं न प्रकरणाद्बलीयो भवति । अन्यार्थदर्शनं हि एतत् , साम्पादिकाग्निप्रशंसारूपत्वात् । अन्यार्थदर्शनं च असत्यामन्यस्यां प्राप्तौ गुणवादेनाप्युपपद्यमानं न प्रकरणं बाधितुमुत्सहते । तस्मात् साम्पादिका अप्येतेऽग्नयः प्रकरणात्क्रियानुप्रवेशिन एव स्युः । मानसवत् — यथा दशरात्रस्य दशमेऽहनि अविवाक्ये पृथिव्या पात्रेण समुद्रस्य सोमस्य प्रजापतये देवतायै गृह्यमाणस्य ग्रहणासादनहवनाहरणोपह्वानभक्षणानि मानसान्येव आम्नायन्ते, स च मानसोऽपि ग्रहकल्पः क्रियाप्रकरणात् क्रियाशेष एव भवति — एवमयमप्यग्नि कल्प इत्यर्थः ॥ ४५ ॥

सिद्धान्तेनोपक्रम्याधुना पूर्वपक्षयति -

पूर्वेति ।

पूर्वपक्षं विवृण्वन्नुक्तसिद्धान्तप्रतिज्ञां निषेधति -

नैतदिति ।

सम्प्रति सहेतुकं पूर्वपक्षं प्रतिजानीते -

पूर्वस्येति ।

इष्टकाभिरग्नींश्चिनुत इत्युक्तक्रियामयाग्न्यधिकारे श्रवणादयमपि साम्पादिकाग्न्युपदेशस्तद्विषयो विकल्पोपदेशस्तथाच यथा क्रियाङ्गं क्रियामयोऽग्निस्तथा साम्पादिकाग्निरपि तदङ्गं स्यादित्यर्थः । विकल्पविशेषः प्रकारभेदः ।

उक्तं सैद्धान्तिकं मतमनुवदति -

नन्विति ।

तेन प्राकरणिकं क्रियाशेषत्वं हित्वा लैङ्गिकं पुमर्थत्वमेष्टव्यमिति शेषः । विध्युद्देशस्थमर्थवादस्थं वा लिङ्गं प्रकरणाद्बलवदिति विकल्प्याद्यमङ्गीकरोति -

सत्यमिति ।

द्वितीयं दूषयति -

लिङ्गमिति ।

एवंञ्जातीयकं सर्वदा सर्वाणि भूतानि चिन्वन्तीत्याद्यर्थवादस्थमिति यावत् ।

तदेव साधयति -

अन्यार्थेति ।

न हीदं साधनात्मकं लिङ्गं विध्युद्देशकवाक्यतया तत्परत्वादतो नेदं स्वातन्त्र्येण प्रमापकं स्तुतिमात्रत्वादित्यर्थः ।

अन्यार्थदर्शनानामपि प्रमापकत्वमाशङ्क्य मूलप्रमाणभावे तथाभावेऽपि प्रकृते तदभावान्मैवमित्याह -

अन्येति ।

प्रकृतलिङ्गस्य प्रकरणाबाधकत्वे फलितमाह -

तस्मादिति ।

एतेन क्रियेति पदं व्याख्यातम् । कथमक्रियारूपाणामेतेषां क्रियाशेषत्वं, तत्राह -

मानसवदिति ।

द्वादशाहे श्रूयतेऽनया त्वा पात्रेण समुद्रं रसया प्राजापत्यं मनोग्रहं गृह्णातीति । तत्र किं मानसं द्वादशाहादहरन्तरं किंवा तन्मध्यपातिनो दशमस्याङ्गमिति सन्देहे वाग्वै द्वादशाहो मनो मानसमिति भेदोक्त्या मानसस्य द्वादशाहाद्भेदसिद्धेर्द्वादशाहस्य गतरसान्यङ्गानि मानसेनैवाप्यायन्तीति च मानसेन द्वादशाहस्य स्तुतेः स्तुतिस्तुत्यभावस्य भेदाकाङ्क्षत्वात्पत्नीसंयाजान्तान्यहानि सन्तिष्ठन्त इत्युक्त्वा द्वादशाहान्तर्गतानामह्नां पत्नीसंयाजान्तत्वदृष्टेर्मानसस्य च पत्नीः संयाज्य मानसाय प्रसर्पन्तीति पत्नीसंयाजादुपरिष्टादेव श्रुतेर्द्वादशाहसंज्ञायाश्च त्रयोदशाहेऽपि द्वादशाहसत्त्वेन कथञ्चिदुपपत्तेर्द्वादशाहादहरन्तरं मानसमिति प्राप्ते मानसस्य त्रयोदशाहत्वे मानाभावाद्द्वादशाहसंज्ञाया गुणवृत्त्या नेतुमयुक्तत्वादङ्गाङ्गिभेदेनोक्तिभेदस्य स्तुतिस्तुत्यभावस्य च सिद्धेरह्नां पत्नीसंयाजान्ततायाश्चौत्सर्गिकत्वाद्विशेषोक्त्या दशमस्याह्नो ग्रहणादीनां मानसानां पत्नीसंयाजात्परत्वाविरोधादेष वै दशमस्याह्नो विसर्गो यन्मानसमिति चोक्तेर्विसर्गस्यान्तस्यान्तवतो धर्मत्वाद्दशमाहरङ्गतावगतेर्दशमेऽहनि मानसाय प्रसर्पन्तीति चाधारत्वोक्तेस्तदङ्गमेव मानसं नाहरन्तरमिति राद्धान्तितम् ।

तदेवं द्वादशाहयोगिनो दशमस्याह्नो मानसमङ्गमिति कर्ममीमांसायामुक्तं तथापि दशरात्रस्य द्वादशाहविकृतित्वात्क्रमेणाहर्धर्मेष्वेतिदिष्टेषु दशरात्रगतदशमाहन्यपि द्वादशाहान्तर्गतदशमाहरङ्गस्य मानसस्यास्ति प्राप्तिरित्यभिप्रेत्य व्याचष्टे -

यथेति ।

अविवाक्यमिति दशमस्याह्नो नामधेयं विविधानि वाक्यानि यत्र मानसत्वादृत्विजां न सन्ति तत्तथेति व्युत्पत्तेः । तत्रेदं श्रुतमनया त्वा पात्रेणेत्यादि त्वां समुद्रमनया रसया पृथिव्या पात्रेण प्रजापतिदेवताकं मनोग्रहं ध्यानमयं ग्रहमापाद्याध्वर्युर्गृह्णातीति वाक्यार्थः ।

तमिमं सोपस्करमुपन्यस्यति -

पृथिव्येति ।

ग्रहणं सोमाधारपात्रस्योपादानमासादनं गृहीतस्य स्वस्थाने स्थापनं ततः सोमस्य होमो हवनं हुतशेषादानमाहरणं पश्चादृत्विजां तद्भक्षणाय मिथोऽनुज्ञाकरणमुपह्वानं ततोऽवशिष्टस्य सोमस्य भक्षणमित्येतानि मानसान्येवेत्यर्थः ।

कथमन्यग्रहयोगिनो मानसस्य कल्पनाभेदस्य क्रियानुप्रवेशित्वं, तत्राह -

स चेति ।

उक्तदृष्टान्तादग्निसम्बन्धिकल्पनाभेदोऽपि क्रियाधिकारात्क्रियानुप्रवेशीति दार्ष्टान्तिकमाह -

एवमिति ॥ ४५ ॥