ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् ॥ ५० ॥
इतश्च प्रकरणमुपमृद्य स्वातन्त्र्यं मनश्चिदादीनां प्रतिपत्तव्यम् , यत् क्रियावयवान् मनआदिव्यापारेष्वनुबध्नाति — ‘ते मनसैवाधीयन्त मनसाचीयन्त मनसैव ग्रहा अगृह्यन्त मनसास्तुवन्मनसाशंसन्यत्किञ्च यज्ञे कर्म क्रियते यत्किञ्च यज्ञियं कर्म मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमयमेव क्रियते’(श॰ब्रा॰ १०-५-३-३) इत्यादिना । सम्पत्फलो हि अयमनुबन्धः । न च प्रत्यक्षाः क्रियावयवाः सन्तः सम्पदा लिप्सितव्याः । न च अत्र उद्गीथाद्युपासनवत् क्रियाङ्गसम्बन्धात् तदनुप्रवेशित्वमाशङ्कितव्यम् , श्रुतिवैरूप्यात् । न हि अत्र क्रियाङ्गं किञ्चिदादाय तस्मिन् अदो नामाध्यवसितव्यमिति वदति । षट्‍त्रिंशत्सहस्राणि तु मनोवृत्तिभेदान् आदाय तेष्वग्नित्वं ग्रहादींश्च कल्पयति, पुरुषयज्ञादिवत् । संख्या च इयं पुरुषायुषस्याहःसु दृष्टा सती तत्सम्बन्धिनीषु मनोवृत्तिष्वारोप्यत इति द्रष्टव्यम् । एवमनुबन्धात्स्वातन्त्र्यं मनश्चिदादीनाम् । आदिशब्दात् अतिदेशाद्यपि यथासम्भवं योजयितव्यम् । तथा हि — ‘तेषामेकैक एव तावान्यावानसौ पूर्वः’(श॰ब्रा॰ १०-५-३-३) इति क्रियामयस्याग्नेर्माहात्म्यं ज्ञानमयानामेकैकस्य अतिदिशन् क्रियायामनादरं दर्शयति । न च सत्येव क्रियासम्बन्धे विकल्पः पूर्वेणोत्तरेषामिति शक्यं वक्तुम् । न हि, येन व्यापारेण आहवनीयधारणादिना पूर्वः क्रियायामुपकरोति, तेन उत्तरे उपकर्तुं शक्नुवन्ति । यत्तु पूर्वपक्षेऽप्यतिदेश उपोद्बलक इत्युक्तम् — सति हि सामान्येऽतिदेशः प्रवर्तत इति, तत् अस्मत्पक्षेऽप्यग्नित्वसामान्येनातिदेशसम्भवात्प्रत्युक्तम् — अस्ति हि साम्पादिकानामप्यग्नीनामग्नित्वमिति । श्रुत्यादीनि च कारणानि दर्शितानि । एवमनुबन्धादिभ्यः कारणेभ्यः स्वातन्त्र्यं मनश्चिदादीनाम् । प्रज्ञान्तरपृथक्त्ववत् — यथा प्रज्ञान्तराणि शाण्डिल्यविद्याप्रभृतीनि स्वेन स्वेन अनुबन्धेन अनुबध्यमानानि पृथगेव कर्मभ्यः प्रज्ञान्तरेभ्यश्च स्वतन्त्राणि भवन्ति, एवमिति । दृष्टश्च अवेष्टेः राजसूयप्रकरणपठितायाः प्रकरणादुत्कर्षः — वर्णत्रयानुबन्धात् । राजयज्ञत्वाच्च राजसूयस्य । तदुक्तं प्रथमे काण्डे — ‘क्रत्वर्थायामिति चेन्न वर्णत्रयसंयोगात्’ (जै. सू. ११ । ४ । ९) इति ॥ ५० ॥

स्वातन्त्र्ये हेत्वन्तराण्याह -

अनुबन्धादिभ्य इति ।

सूत्रस्य हेत्वन्तरोक्तौ तात्पर्यमाह -

इतश्चेति ।

तत्रानुबन्धं हेतुं विवृृणोति -

यदिति ।

क्रियाङ्गानां मनआदिव्यापारेषु संयोजनान्यथानुपपत्त्याऽपि न क्रियाशेषत्वं मनश्चिदादीनामित्यर्थः । तेऽग्नयो विदुषा मनसैवाधीयन्ताधियन्ते छन्दसि कालानियमात् । मनसाचीयन्त इष्टकाश्चीयन्ते । मानसेषु मनश्चित्स्वग्निषु ग्रहाः पात्राणि विदुषाऽगृह्यन्त गृह्यन्ते । मनसैवास्तुवन्नुद्गातृप्रभृतयः स्तुवन्ति । मनसैवाऽशंसन्होत्रादयः शंसन्ति । अन्यदपि यत्किञ्चिद्यज्ञेषु पुरुषार्थं क्रियते यच्च यज्ञार्हं क्रत्वर्थं तत्रानुष्ठीयते तत्सर्वमेव मनोमयं भावनामयं विदुषा मनसैवाक्रियत क्रियत इत्यर्थः ।

किमर्थमिदमनुबन्धकरणं तदाह -

सम्पदिति ।

उपास्त्यर्थो ह्यनुबन्धस्तथापि मनश्चिदादीनामक्रियाङ्गत्वे किमायातं तदाह -

नचेति ।

तेषां क्रियाङ्गत्वे साक्षादेवाधानादिप्रसिद्धेरनर्थिका सम्पदित्यर्थः ।

तर्हि कर्माङ्गयोगादुद्गीथाद्युपासनावदिदमपि क्रियागतमुपासनं स्यान्नेत्याह -

नचेति ।

उपासनं सप्तम्यर्थः ।

उद्गीथाद्युपास्तिवृत्तिश्रुतिविधिवैपरीत्यमेव प्रस्ततोपास्तिविधौ दर्शयति -

नहीति ।

कथं तर्हीह विधानं तदाह -

षडिति ।

मनोवृत्तिभेदेष्वग्नित्वादिरहितेषु तत्कल्पनायां दृष्टान्तमाह -

पुरुषेति ।

कथं मनोवृत्तिषु सङ्ख्याभेदोपादानं तदाह -

सङ्ख्या चेति ।

अनुबन्धसामर्थ्यसिद्धमर्थमुपसंहरति -

एवमिति ।

सौत्रमादिशब्दं योजयति -

आदीति ।

तत्र मनश्चिदादीनां स्वातन्त्र्यप्रापकमतिदेशं विशदयति -

तथाहीति ।

वाक्यतात्पर्यमाह -

क्रियेति ।

ननु पूर्वेणेष्टकाचितेनाग्निना मनश्चिदादीनां विकल्पः स्यादित्युक्तं तेन विकल्पार्थोऽतिदेशो नानादरार्थ इति, तत्राह -

नचेति ।

व्रीहिभिर्यावत्क्रियते यवैरपि तावदिति युक्तो विकल्पः । प्रकृते तु मनश्चिदादीना तदभावान्नेष्टकाचितेन विकल्पः स्यादित्याह -

नहीति ।

अतिदेशस्य पूर्वपक्षानुगुण्यात्कथमादिशब्देन ग्रहणमित्याशङ्क्यानुवदति -

यत्त्विति ।

अग्नित्वसाम्येनाप्यतिदेशसिद्धेर्न पारिशेष्यमिति दूषयति -

तदिति ।

अग्नित्वसाम्यसम्भवमेव स्फुटयति -

अस्तीति ।

वहुवचनं घटयति -

श्रुत्यादीनीति ।

उक्तहेतुफलं निगमयति -

एवमिति ।

दृष्टान्तमवतार्य व्याचष्टे -

प्रज्ञान्तरेति ।

उक्तदृष्टान्तानुसारादनुबन्धाद्युक्तहेतुभ्यो मनश्चिदादीनामपि स्वातन्त्र्यमिति दार्ष्टान्तिकमाह -

एवमिति ।

सूत्रविभागव्याख्यासमाप्तावितिशब्दः ।

मनश्चिदादीनां स्वातन्त्र्ये क्रियाप्रकरणपाठासिद्धिरित्याशङ्क्याह -

दृष्टश्चेति ।

उत्कर्षे हेतुमाह -

वर्णेति ।

तथापि राजसूयाङ्गत्वयोगादुत्कर्षासिद्धिः, तत्राह -

राजेति ।

राजा स्वाराज्यकामो राजसूयेन यजेतेत्यारभ्याग्नेयोऽष्टाकपालो हिरण्यं दक्षिणेत्यादिनाऽवेष्टिर्नामेष्टिराम्नाता । तत्र यदि ब्राह्मणो यजेत वार्हस्पत्यं मध्ये निधायाहुतिमाहुतिं हुत्वाऽभिघारयेद्यदि वैश्यो वैश्वदेवं यदि राजन्यस्तदैन्द्रमिति श्रूयते । तत्र किं ब्राह्मणादीनां राजसूये प्राप्तानां निमित्तार्थेन श्रवणमुत तेषामेव यागो विधीयत इति सन्देहे प्रजापालनकण्टकोद्धरणादि राज्यं तस्य कर्ता राजेत्यार्यप्रसिद्धेस्त्रैवर्णिकानामपि तत्कर्तृत्वप्रसिद्ध्या राजशब्दवत्त्वेन राजसूयाधिकारित्वाद्यदि ब्राह्मणो यजेतेत्याद्याः श्रुतयो निमित्तार्था इति नास्ति प्रकरणादुत्कर्षोऽवेष्टेरिति प्राप्ते ‘गुणवचनब्राह्मणादिभ्यः कर्मणि च’ इति पाणिनिना गुणवचनेभ्यः शुक्लादिशब्देभ्यो ब्राह्मणादिशब्देभ्यश्च कर्मणि ष्यञ्प्रत्ययस्मरणाद्राज्ञः कर्म राज्यमिति राजकर्तृयोगाद्राज्यमित्यवगमात्कोऽसौ राजेत्यपेक्षायामार्येषु तत्प्रसिद्ध्यभावेऽपि म्लेच्छानां क्षत्रियमात्रे राजशब्दप्रयोगान्म्लेच्छप्रसिद्ध्या राजशब्दार्थनिर्णयाद्ब्राह्मणादौ च पालनादिकर्तरि राजशब्दस्य गौणत्वात्क्षत्रियस्यैव राजसूयेऽधिकाराद्ब्राह्मणवैश्ययोस्तत्राप्राप्ते राजसूयप्रकरणं हित्वा ब्राह्मणादिकर्तृकाणि कर्मान्तराणि विधीयन्त इति राजसूयप्रकरणादुत्कर्षोऽवेष्टेरिति द्वितीये स्थितम् । तत्र यथा क्षत्रियकर्तृके राजसूये ब्राह्मणादेरनधिकारादवेष्टे राजसूयप्रकरणादुत्कर्षस्तथा मनश्चिदादीनामपि क्रियाप्रकरणादुत्कर्षो लिङ्गादिभिरिति भावः ।

एकादशेऽपि चिन्तितमेतदित्याह -

तदुक्तमिति ।

राजसूयप्रक्रियायामवेष्टिर्नामेष्टिराम्नाता आग्नेयोऽष्टाकपालो हिरण्यं दक्षिणा बार्हस्पत्यं चरुं शितिपृष्ठो दक्षिणेति ।

तत्राग्नेयादिहविःष्वङ्गानां तन्त्रेण प्रयोगः किं वावृत्त्येति संशये पूर्वपक्षसूत्रम् ‘अवेष्टौ त्वेकतन्त्रं स्याल्लिङ्गदर्शनात् ‘ इति बार्हस्पत्यं मध्ये निधायेति लिङ्गोपलम्भात्प्रयोगभेदे च मध्ये निधानायोगादेतयाऽन्नाद्यकाममित्येकवचनाच्चैकतन्त्र्यमवेष्टावेकस्मिन्प्रयोगेऽङ्गानां तन्त्रेण भावः सकृदनुष्ठानमिति पूर्वपक्षं कृत्वाऽन्नाद्यकामप्रयोगेऽवेष्टेरिदं लिङ्गदर्शनादि न क्रत्वर्थप्रयोगे, तस्य तु दक्षिणा भेदाद्भेद इत्यङ्गावृत्तिरेवेति राद्धान्तिते क्रत्वर्थायामपीष्टाविदं लिङ्गदर्शनाद्यस्तीत्यङ्गानावृत्तिरित्याशङ्कामनूद्य दूषयति -

क्रत्वर्थायामिति चेदिति ।

काम्यायामिष्टौ ‘यदि ब्राह्मणः’ इत्यादिना वर्णत्रयसंयोगात्तस्यां च मध्यनिधानादिसिद्धेर्न राजकर्तृकक्रत्वर्थेष्टौ तत्प्राप्तिरतोऽङ्गावृत्तिरित्यर्थः । अत्र चैकप्रयोगत्वलिङ्गस्य क्रत्वर्थेष्टावसम्भवं काम्येष्टौ च सम्भवं वदताऽनेन सूत्रेण काम्येष्टेः क्रत्वर्थेष्टिवैलक्षण्यसूचनाद्वारेणार्थात्प्रकरणादुत्कर्षोऽपि सिध्यतीति क्रियाप्रकरणान्मनश्चिदादीनामुत्कर्षो भवत्येतदनुगुणमुदाहरणमिति द्रष्टव्यम् ॥ ५० ॥