ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥ ५१ ॥
यदुक्तं मानसवदिति, तत्प्रत्युच्यते । न मानसग्रहसामान्यादपि मनश्चिदादीनां क्रियाशेषत्वं कल्प्यम् , पूर्वोक्तेभ्यः श्रुत्यादिहेतुभ्यः केवलपुरुषार्थत्वोपलब्धेः । न हि किञ्चित् कस्यचित् केनचित् सामान्यं न सम्भवति । न च तावता यथास्वं वैषम्यं निवर्तते; मृत्युवत् — यथा ‘स वा एष एव मृत्युर्य एष एतस्मिन्मण्डले पुरुषः’ इति, ‘अग्निर्वै मृत्युः’ (बृ. उ. ३ । २ । १०) इति च अग्न्यादित्यपुरुषयोः समानेऽपि मृत्युशब्दप्रयोगे, न अत्यन्तसाम्यापत्तिः । यथा च ‘असौ वाव लोको गौतमाग्निस्तस्यादित्य एव समित्’ (छा. उ. ५ । ४ । १) इत्यत्र न समिदादिसामान्यात् लोकस्याग्निभावापत्तिः — तद्वत् ॥ ५१ ॥

परोदीरितमुदाहरणं विघटयति -

नेति ।

परोक्तमनूद्य तदुत्तरत्वेन सूत्राक्षराणि व्याचष्टे -

यदित्यादिना ।

मानसेन ग्रहेण सह मनश्चिदादीनां च भावनामयत्वे तुल्ये कथं श्रुत्यादिभिः स्वातन्त्र्यं, तत्राह -

नहीति ।

सत्यपि सादृश्ये यथास्वं वैषम्यमव्यावृत्तमित्यत्र दृष्टान्तमादाय व्याचष्टे -

मृत्युवदिति

नहीत्यादि विभजते -

यथाचेति ।

उक्तदृष्टान्तानुरोधान्मानसग्रहस्य मनश्चिदादीनां च भावनामयत्वाविशेषेऽपि पारतन्त्र्यस्वातन्त्र्ययोः सिद्धिरित्याह -

तद्वदिति ॥ ५१ ॥