ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
एक आत्मनः शरीरे भावात् ॥ ५३ ॥
अत्र एके देहमात्रात्मदर्शिनो लोकायतिकाः देहव्यतिरिक्तस्य आत्मनोऽभावं मन्यमानाः, समस्तव्यस्तेषु बाह्येषु पृथिव्यादिष्वदृष्टमपि चैतन्यं शरीराकारपरिणतेषु भूतेषु स्यादिति — सम्भावयन्तस्तेभ्यश्चैतन्यम् , मदशक्तिवत् विज्ञानम् चैतन्यविशिष्टः कायः पुरुषः — इति च आहुः । न स्वर्गगमनाय अपवर्गगमनाय वा समर्थो देहव्यतिरिक्त आत्मा अस्ति, यत्कृतं चैतन्यं देहे स्यात् । देह एव तु चेतनश्च आत्मा च इति प्रतिजानते । हेतुं च आचक्षते — शरीरे भावादिति । यद्धि यस्मिन्सति भवति, असति च न भवति, तत् तद्धर्मत्वेनाध्यवसीयते — यथा अग्निधर्मावौष्ण्यप्रकाशौ । प्राणचेष्टाचैतन्यस्मृत्यादयश्च आत्मधर्मत्वेनाभिमता आत्मवादिनाम् — तेऽपि अन्तरेव देहे उपलभ्यमानाः बहिश्च अनुपलभ्यमानाः असिद्धे देहव्यतिरिक्ते धर्मिणि देहधर्मा एव भवितुमर्हन्ति । तस्मादव्यतिरेको देहादात्मन इति ॥ ५३ ॥

मनश्चिदादयोऽग्नयो यदर्थाः स पुरुषो विषयः स किं देहस्तदतिरिक्तो वेति विप्रतिपत्तेः संशये पूर्वपक्षयति -

अत्रेति ।

पूर्वपक्षे देहात्मवादसिद्धिः सिद्धान्ते वैदिकात्मसिद्धिरिति फलभेदः । परीक्षकव्यवहारभूमिः सप्तम्यर्थः ।

स्वतन्त्रमन्याधारं वा चैतन्यमात्रं वा व्यावर्तते मनुष्योऽहमिति देहस्याहंप्रत्ययालम्बनत्ववदतिरिक्तात्मसत्त्वे मानाभावं गृहीत्वाह -

देहेति ।

चैतन्याधारस्यात्मत्वाद्भौतिकत्वेनाचेतनस्य कथमात्मत्वमित्याशङ्क्याह -

समस्तेति ।

एकैकस्मिन्नविद्यमानं कथं सङ्घाते स्यात् , तत्राह -

तेभ्य इति ।

चैतन्यं सम्भावयन्त इति सम्बन्धः ।

सङ्घातविशेषे कार्यविशेषसत्त्वे दृष्टान्तमाह -

मदेति ।

यथैकैकस्मात्ताम्बूलादेरदृष्टापि मदशक्तिः सङ्घाते दृश्यते तथेदं ज्ञानमेकैकस्मिन्नदृष्टमपि देहाकारपरिणतभूतेषु संहतेषु भवतीति चाहुरिति योजना ।

देहस्यैव भोक्तृत्वे मृतदेहेऽपि भोगः स्यादित्याशङ्क्याह -

चैतन्येति ।

अग्निसंनिधानादयःपिण्डस्यौष्ण्यमिवात्मसंनिधेर्देहचैतन्यमित्यतिरिक्तस्यात्मनः स्वर्गापवर्गान्वयिनोऽभावान्न देहस्य चैतन्यवैशिष्ट्यमित्याशङ्क्याह -

नेत्यादिना ।

आत्मा तर्हि कः स्यादित्यपेक्षायामाह -

देहेति ।

सूत्रभागेन प्रतिज्ञातेऽर्थे हेतुमवतार्यं व्याचष्टे -

यद्धीति ।

अन्वयव्यतिरेकाभ्यां चैतन्यस्य देहधर्मतैवेति नातिरिक्तात्मसिद्धिरित्यर्थः ।

प्राणचेष्टादयः साश्रयाः, कार्यत्वात्संमतवत् , इत्यनुमानात्प्राणाद्याश्रयस्यातिरिक्तात्मनः सिद्धिरित्याशङ्क्यानुमानाप्रामाण्यात्प्रामाण्येऽपि सिद्धसाध्यत्वान्मैवमित्वाह -

प्राणेति ।

चेष्टा हिताहितप्राप्तिपरिहारार्थो व्यापारः । आदिपदेनेच्छाद्वेषादय उक्ताः ।

तेषां देहधर्मत्वेनादृष्टानां कथं तद्धर्मतेत्याशङ्क्याह -

असिद्ध इति ।

प्रत्यक्षेणातिरिक्तात्मनोऽदृष्टेर्मानान्तरे चासंमतेर्गौरोऽहं स्थूलोऽहमिति च देहस्यैवात्मत्वेनाध्यक्षत्वात्तदाधारत्वमेव प्राणादीनामित्यर्थः ।

देहात्मवादी प्रत्यक्षफलमुपसंहरति -

तस्मादिति ॥ ५३ ॥