ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥ ५७ ॥
ततोऽभिधीयतेभूम्नः पदार्थोपचयात्मकस्य समस्तस्य वैश्वानरोपासनस्य ज्यायस्त्वं प्राधान्यं अस्मिन्वाक्ये विवक्षितं भवितुमर्हति, प्रत्येकम् अवयवोपासनानामपि; क्रतुवत्यथा क्रतुषु दर्शपूर्णमासप्रभृतिषु सामस्त्येन साङ्गप्रधानप्रयोग एव एको विवक्ष्यते, व्यस्तानामपि प्रयोगः प्रयाजादीनाम् , नाप्येकदेशाङ्गयुक्तस्य प्रधानस्यतद्वत्कुत एतत्भूमैव ज्यायानिति ? तथा हि श्रुतिः भूम्नो ज्यायस्त्वं दर्शयति, एकवाक्यतावगमात्एकं हि इदं वाक्यं वैश्वानरविद्याविषयं पौर्वापर्यालोचनात्प्रतीयतेतथा हिप्राचीनशालप्रभृतय उद्दालकावसानाः षट् ऋषयः वैश्वानरविद्यायां परिनिष्ठामप्रतिपद्यमानाः अश्वपतिं कैकेयं राजानमभ्याजग्मुःइत्युपक्रम्य, एकैकस्य ऋषेरुपास्यं द्युप्रभृतीनामेकैकं श्रावयित्वा, मूर्धा त्वेष आत्मन इति होवाच’ (छा. उ. ५ । १२ । २) इत्यादिना मूर्धादिभावं तेषां विदधातिमूर्धा ते व्यपतिष्यद्यन्मां नागमिष्यः’ (छा. उ. ५ । १२ । २) इत्यादिना व्यस्तोपासनमपवदतिपुनश्च व्यस्तोपासनं व्यावर्त्य, समस्तोपासनमेवानुवर्त्य, सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति’ (छा. उ. ५ । १८ । १) इति भूमाश्रयमेव फलं दर्शयतियत्तु प्रत्येकं सुतेजःप्रभृतिषु फलभेदश्रवणम् , तत् एवं सति अङ्गफलानि प्रधान एवाभ्युपगतानिइति द्रष्टव्यम्तथाउपास्सेइत्यपि प्रत्यवयवमाख्यातश्रवणं पराभिप्रायानुवादार्थम् , व्यस्तोपासनविधानार्थम्तस्मात्समस्तोपासनपक्ष एव श्रेयानिति

सिद्धान्तसूत्रमवतार्य भूम्नो ज्यायस्त्वमिति प्रतिज्ञां व्याचष्टे -

तत इति ।

समस्तोपासनवद्व्यस्तोपासनमपीष्यतां, तत्राह -

नेति ।

तत्र दृष्टान्तमादाय विभजते -

क्रतुवदिति ।

सामस्त्येनेत्यौत्सर्गिकोक्तिः ।

प्रयाजादीनां प्रत्येकमप्रयोगेऽपि नित्यादीनां किञ्चिद्गुणवतामपि प्रयोगोऽस्तीत्याशङ्क्य काम्येषु नैवमित्याह -

नापीति ।

सर्वाङ्गोपेतकाम्यक्रतोरिष्टत्ववद्वैश्वानरोपासनस्यापि समस्तस्यैव प्राधान्येष्टतेत्याह -

तद्वदिति ।

हेतुं प्रश्नपूर्वकमेव व्याकरोति -

कुत इति ।

साक्षाज्ज्यायत्त्वोक्तिरदृष्टेत्याशङ्क्याह -

एकेति ।

वाक्यप्रकरणाभ्यामेकवाक्यत्वं साधयति -

एकं हीति ।

विहितानामपि व्यस्तोपास्तीनां समस्तोपास्त्यन्तर्भावान्न पृथक्कार्यतेति मत्वाह -

तथाहीति ।

व्यस्तोपास्त्यपवादश्रुतेश्च समस्तस्यैवोपासनस्य ज्यायस्त्वमित्याह -

मूर्धेति ।

समस्तोपासने वैफल्यान्न तस्य ज्यायस्त्वमित्याशङ्क्याह -

पुनश्चेति ।

व्यस्तोपासनेऽपि फलश्रवणमस्तीत्युक्तं, तत्राह -

यत्त्विति ।

व्यस्तोपास्तीनां प्रकरणवाक्याभ्यां समस्तोपास्त्यन्तर्भावेन प्रयाजदर्शपूर्णमासवदेकप्रयोगत्वे सिद्धे प्रधानतदङ्गफलानामर्थवादगतानामेकीकरणेन समस्तोपास्तिरेव ज्यायसीत्याह -

तदिति ।

प्रत्यवयवमुपास्तिविधिश्रुतेर्व्यस्तोपास्तिर्भातीत्युक्तमित्याशङ्क्याह -

तथेति ।

औपमन्यवाद्यवगतरूपानुवादेन समस्तोपास्तिरेवात्र विधित्सितेत्यर्थः ।

स्वपक्षमुपसंहरति -

तस्मादिति ।