सिद्धान्तसूत्रमवतार्य भूम्नो ज्यायस्त्वमिति प्रतिज्ञां व्याचष्टे -
तत इति ।
समस्तोपासनवद्व्यस्तोपासनमपीष्यतां, तत्राह -
नेति ।
तत्र दृष्टान्तमादाय विभजते -
क्रतुवदिति ।
सामस्त्येनेत्यौत्सर्गिकोक्तिः ।
प्रयाजादीनां प्रत्येकमप्रयोगेऽपि नित्यादीनां किञ्चिद्गुणवतामपि प्रयोगोऽस्तीत्याशङ्क्य काम्येषु नैवमित्याह -
नापीति ।
सर्वाङ्गोपेतकाम्यक्रतोरिष्टत्ववद्वैश्वानरोपासनस्यापि समस्तस्यैव प्राधान्येष्टतेत्याह -
तद्वदिति ।
हेतुं प्रश्नपूर्वकमेव व्याकरोति -
कुत इति ।
साक्षाज्ज्यायत्त्वोक्तिरदृष्टेत्याशङ्क्याह -
एकेति ।
वाक्यप्रकरणाभ्यामेकवाक्यत्वं साधयति -
एकं हीति ।
विहितानामपि व्यस्तोपास्तीनां समस्तोपास्त्यन्तर्भावान्न पृथक्कार्यतेति मत्वाह -
तथाहीति ।
व्यस्तोपास्त्यपवादश्रुतेश्च समस्तस्यैवोपासनस्य ज्यायस्त्वमित्याह -
मूर्धेति ।
समस्तोपासने वैफल्यान्न तस्य ज्यायस्त्वमित्याशङ्क्याह -
पुनश्चेति ।
व्यस्तोपासनेऽपि फलश्रवणमस्तीत्युक्तं, तत्राह -
यत्त्विति ।
व्यस्तोपास्तीनां प्रकरणवाक्याभ्यां समस्तोपास्त्यन्तर्भावेन प्रयाजदर्शपूर्णमासवदेकप्रयोगत्वे सिद्धे प्रधानतदङ्गफलानामर्थवादगतानामेकीकरणेन समस्तोपास्तिरेव ज्यायसीत्याह -
तदिति ।
प्रत्यवयवमुपास्तिविधिश्रुतेर्व्यस्तोपास्तिर्भातीत्युक्तमित्याशङ्क्याह -
तथेति ।
औपमन्यवाद्यवगतरूपानुवादेन समस्तोपास्तिरेवात्र विधित्सितेत्यर्थः ।
स्वपक्षमुपसंहरति -
तस्मादिति ।