उद्गीथाद्युपासनं तत्तदङ्गविशेषालम्बनं नेत्युक्तिप्रसङ्गेन वैश्वानरोपास्तिरपि तत्तदङ्गविशेषालम्बना नेति साधयति -
भूम्न इति ।
सैव हीत्यत्र तद्यत्तत्सत्यमिति तच्छब्देन प्रकृतपरामर्शाद्विद्यैक्यमुक्तम् ।
अत्र तु तद्वदभेदे हेत्वभावादगतार्थतेति मत्वा व्यस्तस्य समस्तस्य च वैश्वानरस्योपासनं श्रौतमुदाहरति -
प्राचीनेति ।
तत्र प्रश्नप्रतिवचनरूपवाक्येन व्यस्तोपास्तिमुपन्यस्यति -
व्यस्तेति ।
वैश्वानराधिकरणे व्याख्यातं वाक्यमनुस्मृत्य समस्तोपास्तिं दर्शयति -
तथेति ।
द्विविधामुपास्तिमधिकृत्योभयत्र विधिफलश्रुतिभ्यामेकवाक्यत्वोपपत्तेश्च संशयमाह -
तत्रेति ।
एकवाक्यतालाभेन समस्तस्यैव वैश्वानरस्योपास्तिरित्युक्त्या वाक्यार्थधीहेतोरेवात्रापि चिन्तनात्पादादिसङ्गतिः ।
पूर्वपक्षे वाक्यभेदः सिद्धान्ते तदैक्यमित्यङ्गीकृत्य पूर्वपक्षार्थं विमृशति -
किमिति ।
उद्गीथादिश्रुत्या संनिधिं बाधित्वोद्गीथाद्युपास्तीनां सर्वशाखासूपसंहारोक्तिवदत्रापि व्यस्तोपासनस्य विधिफलयोः श्रुतेः समस्तोपास्तिसंनिधिप्राप्तं स्तुत्यर्थत्वं बाधित्वा विधेयतेति पूर्वपक्षमाह -
प्रतीति ।
सुतमित्यभिषवस्य कण्डनस्य कर्मतापन्नं सोमरूपम् । प्रसुतमासुतमित्यवस्थाविशेषापेक्षं तस्यैव विशेषणम् । सोमयागकरणसम्पत्तिस्तव कुले दृश्यत इति यावत् । आत्मनो वैश्वानरस्येत्यादिवाक्यप्रकरणाभ्यां समस्तोपासनाङ्गत्वेन तदन्तर्भावेऽपि व्यस्तोपासनानामत्त्यन्नं पश्यति प्रियमित्यादिना प्रत्यवयवं विधिफलश्रुतेः स्वातन्त्र्येणापि विधानं कल्प्यं तेनोभयथोपासनं कार्यमिति भिन्नान्येवैतानि वाक्यानीत्यर्थः ।