ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ १ ॥
पुरुषार्थोऽत इतिअस्माद्वेदान्तविहितादात्मज्ञानात् स्वतन्त्रात् पुरुषार्थः सिध्यतीति बादरायण आचार्यो मन्यतेकुत एतदवगम्यते ? शब्दादित्याहतथा हितरति शोकमात्मवित्’ (छा. उ. ७ । १ । ३) यो वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) आचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्युपक्रम्य, सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानाति’ (छा. उ. ८ । ७ । १) इति; आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. ४ । ५ । ६) इत्युपक्रम्य, एतावदरे खल्वमृतत्वम्’ (बृ. उ. ४ । ५ । १५) इति एवंजातीयका श्रुतिः केवलाया विद्यायाः पुरुषार्थहेतुत्वं श्रावयति ॥ १ ॥

सूत्रस्थां प्रतिज्ञां योजयति -

अस्मादिति ।

तत्र प्रमाणं पृच्छति -

कुत इति ।

सूत्रावयवेनोत्तरमाह -

शब्दादित्याहेति ।

प्रमाणं विवृणोति -

तथा हीत्यादिना ।

सगुणब्रह्मज्ञानस्यापि स्वातन्त्र्येण पुमर्थहेतुतेति वक्तुं तद्विषयां श्रुतिमाह -

य आत्मेति ।

निर्गुणविद्याविषयं वाक्यान्तरमाह -

आत्मेति ।

उक्तश्रुतिषु विद्याफलयोः साध्यसाधनत्वं न भातीत्याशङ्क्य तयोरेकपुरुषसम्बन्धसामर्थ्यादेव तद्धीरित्याशयेनाह -

केवलाया इति ॥ १ ॥