ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ २ ॥
कर्तृत्वेन आत्मनः कर्मशेषत्वात् , तद्विज्ञानमपि व्रीहिप्रोक्षणादिवत् विषयद्वारेण कर्मसम्बन्ध्येवइत्यतः, तस्मिन् अवगतप्रयोजने आत्मज्ञाने या फलश्रुतिः, सा अर्थवादःइति जैमिनिराचार्यो मन्यतेयथा अन्येषु द्रव्यसंस्कारकर्मसु यस्य पर्णमयी जुहूर्भवति पापꣳ श्लोकꣳ शृणोति’ (तै॰सं॰ ३-५-७) यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते’(तै॰सं॰ ६-१-१) यत्प्रयाजानूयाजा इज्यन्ते, वर्म वा एतद्यज्ञस्य क्रियते वर्म यजमानस्य भ्रातृव्याभिभूत्यै’(तै॰सं॰ २-६-१) इत्येवंजातीयका फलश्रुतिः अर्थवादःतद्वत्कथं पुनः अस्य अनारभ्याधीतस्य आत्मज्ञानस्य प्रकरणादीनामन्यतमेनापि हेतुना विना क्रतुप्रवेश आशङ्क्यते ? कर्तृद्वारेण वाक्यात् तद्विज्ञानस्य क्रतुसम्बन्ध इति चेत् , , वाक्याद्विनियोगानुपपत्तेः; अव्यभिचारिणा हि केनचिद्द्वारेण अनारभ्याधीतानामपि वाक्यनिमित्तः क्रतुसम्बन्धोऽवकल्पतेकर्ता तु व्यभिचारि द्वारम् , लौकिकवैदिककर्मसाधारण्यात्तस्मान्न तद्द्वारेण आत्मज्ञानस्य क्रतुसम्बन्धसिद्धिरिति, व्यतिरेकविज्ञानस्य वैदिकेभ्यः कर्मभ्योऽन्यत्र अनुपयोगात् हि देहव्यतिरिक्तात्मज्ञानं लौकिकेषु कर्मसु उपयुज्यते, सर्वथा दृष्टार्थप्रवृत्त्युपपत्तेःवैदिकेषु तु देहपातोत्तरकालफलेषु देहव्यतिरिक्तात्मज्ञानमन्तरेण प्रवृत्तिः नोपपद्यत इति, उपयुज्यते व्यतिरेकविज्ञानम्ननु अपहतपाप्मत्वादिविशेषणात् असंसार्यात्मविषयम् औपनिषदं दर्शनं प्रवृत्त्यङ्गं स्यात्, प्रियादिसंसूचितस्य संसारिण एव आत्मनो द्रष्टव्यत्वेनोपदेशात्अपहतपाप्मत्वादि विशेषणं तु स्तुत्यर्थं भविष्यतिननु तत्र तत्र प्रसाधितमेतत्अधिकमसंसारि ब्रह्म जगत्कारणम्तदेव संसारिण आत्मनः पारमार्थिकं स्वरूपम् उपनिषत्सु उपदिश्यत इतिसत्यं प्रसाधितम्तस्यैव तु स्थूणानिखननवत् फलद्वारेण आक्षेपसमाधाने क्रियेते दार्ढ्याय ॥ २ ॥

तत्त्वज्ञानं कर्माङ्गकर्तृद्वारा प्रयोगविधिनादेयमादीयमानकर्माङ्गकर्त्राश्रयेण शास्त्रसिद्धत्वाद्यजमानसंस्काराञ्जनादिवदिति मत्वा शेषत्वादित्येतद्व्याचष्टे -

कर्तृत्वेनेति ।

तत्त्वज्ञानं प्रयोगविधिनादेयं साध्यफलोक्तिशून्यत्वे सति कर्माङ्गाश्रयत्वात्पर्णमयीत्वादिवदिति प्रयोगः ।

स्वतन्त्रफलस्य कथं प्रोक्षणादिवत्कर्माङ्गतेत्याशङ्क्य पुरुषार्थवाद इत्यस्यार्थमाह -

इत्यत इति ।

वेदार्थजिज्ञासायां तत्त्वनिर्णयार्थं संशयादिप्रतिभासो गुरोरग्रे शिष्येण दर्शनीयो गुरुणा च तन्निरासेन तत्त्वमाविष्करणीयमिति शिष्टाचारं दर्शयितुं जैमिनिग्रहणं न प्रतिपक्षतया शिष्यस्य तदयोगात् ।

फलश्रुतेरर्थवादत्वे सूत्रितं दृष्टान्तं व्याचष्टे -

यथेति ।

पर्णमयीद्रव्ये यजमानस्याञ्जनादिसंस्कारे प्रयाजादिकर्मसु च क्रमेण फलश्रुतीराह -

यस्येत्यादिना ।

सा च फलश्रुतिर्न फलपरा फलवत्क्रत्वर्थत्वात्पर्णतादेः फलशेषत्वायोगात् । अतः साऽर्थवाद एवेति पर्णमयीत्वाधिकरणे समर्थितम् ।

तथात्मज्ञानेऽपि फलश्रुतिरर्थवाद एव स्यादित्याह -

तद्वदिति ।

विनियोजकमानाभावादात्मधियोऽङ्गत्वात्तत्र फलश्रुतिर्नार्थवाद इति शङ्कते -

कथमिति ।

प्रकरणादिना क्रत्वसम्बन्धेऽपि जुहूद्वारा पर्णमयीत्वस्य वाक्यात्क्रतुसम्बन्धवदात्मधियोऽपि कर्तृद्वारा वेदान्तवाक्यात्क्रतुसङ्गतिरिति पूर्ववाद्याह -

कर्त्रिति ।

सिद्धान्ती दूषयति -

नेति ।

तदेव विवृणोति

अव्यभिचारिणेति ।

जुहूवदात्मज्ञाने कर्तैवाव्यभिचारि द्वारमित्याशङ्क्याह -

कर्तेति ।

तस्य व्यभिचारित्वे फलितमाह -

तस्मादिति ।

किं देहातिरिक्तात्मज्ञानस्य कर्माङ्गत्वं विनियोजकाभावान्निरस्यते किं वाऽपहतपाप्मत्वादिविशेषितासंसार्यात्मविषयौपनिषदज्ञानस्येति विकल्प्याद्यं पूर्ववादी दूषयति -

नेति ।

तस्य विषयद्वारा तेष्वनुप्रवेशान्न कर्माङ्गत्वं निषेद्धुं शक्यमित्यर्थः ।

लौकिककर्मणोऽपि कर्मत्वाद्वैदिककर्मवत्कर्तृदारेणातिरिक्तज्ञानापेक्षेति कर्तुः साधारण्यमित्याशङ्क्याह -

नहीति ।

सर्वथेति व्यतिरेकज्ञानाज्ञानयोरित्यर्थः ।

तर्हि वैदिकान्यपि कर्माणि कर्मत्वादितरवन्न व्यतिरेकएनापेक्षापीत्याहङ्क्याह -

वैदिकेष्विति ।

कारीर्यादिनिवृत्त्यर्थं देहपातेत्यादिविशेषणम् ।

द्वितीयमाशङ्कते -

नन्विति ।

अनुपयोगित्वाद्विरोधित्वाच्च तस्य न कत्वङ्गतेति भावः ।

क्रत्वपेक्षितं रूपं हित्वान्यदविवक्षितमित्याह -

नेत्यादिना ।

जायादीनामात्मार्थत्वेन प्रियत्वमुक्त्वात्मा द्रष्टव्य इति वदता जायादिना भोग्येन सूचितस्य संसारिणो भोक्तुरेव द्रष्टव्यत्वमिष्टं भोक्तृज्ञानं च कर्मसूपयुक्तमतो भोक्रतिरिक्तमात्मरूपं न श्रौतमित्यर्थः ।

अपतपाप्मत्वादिविशेषणस्य भोक्तर्ययुक्तत्वादतिरिक्तमात्मरूपमेष्टव्यमित्याशङ्क्याह -

अपहतेति ।

जन्मादिसूत्रमारभ्य तत्र तत्राप्रपञ्चब्रह्मात्मपरता वेदान्तानामुक्ता तत्कथमपहतपाप्मत्वादिकीर्तनस्य स्तुत्यर्थतेति शङ्कते -

नन्विति ।

अधिकमितिविशेषणादाशङ्कितं द्वैतंवारयति -

तदेवेति ।

संसारिणोऽसंसारीश्वरो रूपमिति व्याहतिं प्रत्याह -

पारमार्थिकमिति ।

एेक्वे प्रमाणं पूर्वोक्तं सूचयति -

उपनिषत्स्विति ।

पूर्वपक्षाक्षेपं समाधत्ते -

सत्यमित्यादिना ।

फलद्वारेणेत्यात्मज्ञानं वेदान्तानां फलं तत्क्रत्वर्थं पुरुषार्थं वेति विचारद्वारेणेत्यर्थः ।

साधितस्यैवाक्षेपसमाधिभ्यां साधनस्य फलमाह -

दार्ढ्यायेति ॥ २ ॥