ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
आचारदर्शनात् ॥ ३ ॥
जनको वैदेहो बहुदक्षिणेन यज्ञेनेजे’ (बृ. उ. ३ । १ । १) यक्ष्यमाणो वै भगवन्तोऽहमस्मि’ (छा. उ. ५ । ११ । ५) इत्येवमादीनि ब्रह्मविदामपि अन्यपरेषु वाक्येषु कर्मसम्बन्धदर्शनानि भवन्तितथा उद्दालकादीनामपि पुत्रानुशासनादिदर्शनात् गार्हस्थ्यसम्बन्धोऽवगम्यतेकेवलाच्चेत् ज्ञानात् पुरुषार्थसिद्धिः स्यात् , किमर्थम् अनेकायाससमन्वितानि कर्माणि ते कुर्युः ? ‘अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्इति न्यायात् ॥ ३ ॥

किञ्च जनकादीनां विद्यया सह कर्मा चरणदर्शनान्न केवलैव विद्या मोक्षहेतुरतः महानुष्ठानं विद्यायाः स्वातन्त्र्याभावेन कर्माङ्गत्वे लिङ्गमित्याह -

आचारेति ।

सूत्रं व्याचष्टे -

जनको हेति ।

विदेहानामधिपतिर्जनको नाम राजा बहुदक्षिणसंज्ञेन यज्ञेनाश्वमेधेन वा बहुदक्षिणायुक्तेन पुरा कदाचिदीजे यागं कृत्वान् ।

कैकेयस्य राज्ञो ब्रह्मविदो वाक्यमाह -

यक्ष्यमाण इति ।

विद्यार्थिनः समागतान्प्राचीनशालादीन्भगवन्त इति सम्बोध्याहं यक्ष्यमाणोऽस्मि ततश्च कतिचिद्दिनान्याध्वमिति राजोक्तवानित्यर्थः ।

उक्तवाक्यानि विद्यार्थानि न कर्मार्थानीत्याशङ्क्याह -

अन्येति ।

इतश्च ब्रह्मविदामस्ति कर्मसङ्गतिरित्याह -

तथेति ।

आदिपदेन व्यासयाज्ञवल्क्यादिसङ्ग्रहः । द्वितीयेन भार्यानु शासनादि गृह्यते ।

कर्म कृतं विद्वद्भिरेव कैश्चिदित्येतावता विद्याशक्तेरपह्नवायोगात्केबलैव सा मुक्तिहेतुरित्याशङ्क्याह -

केवलादिति ।

अल्पायासमुपायं हित्वा न कोऽपि महायासं तमाद्रियत इत्यत्र लौकिकन्यायमाह -

अर्के चेदिति ।

समीपवचनोऽर्कशब्दः ॥ ३ ॥