सूत्रं योजयति -
तुशब्दादिति ।
पक्षविपस्विर्तमानमेव पक्षमनूद्य दर्शयति -
यदिति ।
अनुपपत्तिहेतुं प्रश्नपूर्वकमाह -
कस्मादिति ।
अधिकोपदेशं व्यतिरेकतो दर्शयति -
यदीति ।
यः कर्ता कर्माङ्गं नासौ वेदान्तवेद्यो यच्च ब्रह्म तद्वेद्यं न तत्कर्माङ्गमतस्तज्ज्ञानस्य कुतः शेषता कुतस्तरां फलश्रुतेरर्थवादतेत्यर्थः ।
ब्रह्मात्मधीर्न क्रतुप्रयोगविधिनोपादेया तद्विरोधित्वादादीयमानोदितहोमविरोध्यनुदितहोमवदिति मत्वाह -
प्रत्युतेति ।
बागरायणस्येत्यादि व्याचष्टे -
तस्मादिति ।
उक्तात्मज्ञानस्य क्रतुशेषत्वायोगस्तच्छब्दार्थः ।
अधिकोपदेशासिद्धिमाशङ्क्य तद्दर्शनादित्यनेन प्रत्याह -
तथाहीति ।
क्रत्वपेक्षितं रूपं हित्वाऽन्यदात्मरूपमनिष्टमित्युक्तं, तत्राह -
यत्त्विति ।
आत्मनस्तु कामायेत्युपक्रम्यात्मा वा अरे द्रष्टव्य इति वाक्यं ब्रह्मोपदिदिक्षायां सत्याभेव ब्रह्मात्मैक्याभिप्रायमित्यत्र वाक्यशेषमाह -
अस्येति ।
यः प्राणेनेत्यादि वाक्यमप्यैक्यपरमित्यत्र वाक्यशेषं दर्शयति -
योऽशनायेति ।
य एषोऽक्षिणीत्यादिवाक्यमपि तथेत्यस्मिन्नर्थे शेषानुगुण्यमाह -
परमिति ।
उक्तैः शेषैः संसारिणो यदधिकं ब्रह्म तस्योपदिदिक्षायां सत्यामेव ब्रह्मणो जीवस्यात्यन्तभेदाभावधिया द्रष्टव्यादिवाक्यमिति क्रत्वनपेक्षितमात्मरूपं वेदान्तेषु विवक्षितमित्युपगमे न कश्चिद्विरोधोऽस्तीति योजना ।
कुतो जीवब्रह्मैक्य मिथो विरोधादित्याशङ्क्य तात्त्विको विरोधो नास्तीत्याह -
पारमेश्वरमिति ।
प्रातिभासिकस्तु विरोधस्तात्त्विकाभेदाविरोधीति मत्वाह -
उपाधीति ।
जीवस्य तात्त्विकं रूपं ब्रह्मैवेत्यत्र श्रुतिसंवादमाह -
तत्त्वमिति ।
सम्पदादिविषयं तत्त्वमादिवाक्यं न वस्तुविषयमित्याशङ्क्याह -
सर्वं चेति ॥ ८ ॥