ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
तुल्यं तु दर्शनम् ॥ ९ ॥
यत्तूक्तम्आचारदर्शनात्कर्मशेषो विद्येति, अत्र ब्रूमःतुल्यमाचारदर्शनम् अकर्मशेषत्वेऽपि विद्यायाःतथा हि श्रुतिर्भवति — ‘एतद्ध स्म वै तद्विद्वांस आहुऋषयः कावषेयाः किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे’ ‘एतद्ध स्म वै तत्पूर्वे विद्वांसोऽग्निहोत्रं जुहवाञ्चक्रिरेएतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’ (बृ. उ. ३ । ५ । १) इत्येवंजातीयकायाज्ञवल्क्यादीनामपि ब्रह्मविदाम् अकर्मनिष्ठत्वं दृश्यतेएतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार’ (बृ. उ. ८ । ७ । २) इत्यादिश्रुतिभ्यःअपि यक्ष्यमाणो वै भगवन्तोऽहमस्मि’ (छा. उ. ५ । ११ । ५) इत्येतत् लिङ्गदर्शनं वैश्वानरविद्याविषयम्सम्भवति सोपाधिकायां ब्रह्मविद्यायां कर्मसाहित्यदर्शनम् तु अत्रापि कर्माङ्गत्वमस्ति, प्रकरणाद्यभावात् ॥ ९ ॥

परोक्तं लिङ्गदर्शनं प्रत्याह -

तुल्यं त्विति ।

उक्तमनूद्य सूत्रमुत्तरत्वेन योजयति -

यदित्यादिना ।

इतश्च विद्याया न शेषतेत्याह -

याज्ञवल्क्येति ।

आदिशब्देन शुकादयो गृह्यन्ते ।

कथं तेषामकर्मनिष्ठत्वं तदाह -

एतावदिति ।

उभयथालिङ्गदर्शने संशयमाशङ्क्य परकीयलिङ्गानामन्यथासिद्धिं वक्तुमारभते -

अपिचेति ।

तत्र यक्ष्यमाण इत्यादिलिङ्गदर्शनस्यान्यथासिद्धिमाह -

यक्ष्यमाण इति ।

तत्रापि विद्यात्वान्न कर्मसाहित्यमन्यथा ब्रह्मविद्यायामपि तत्प्रसङ्गादित्याशङ्क्याह -

सम्भवतीति ।

तर्हि वैश्वानरविद्याया न स्वातन्त्र्येण फलवत्त्वं कर्माङ्गत्वाङ्गीकारात् , तत्राह -

न त्विति ।

येषां च ब्रह्मविदामपि कर्म दृश्यते न तत्तेषां कर्म तद्धि चोदनालक्षणं तेषां चाहंममाभिमानाभावेन चोदनाभावात्कथञ्चिदनुवर्तमानमपि तदाभासमात्रमिति भावः ॥ ९ ॥