ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ ८ ॥
तुशब्दात् पक्षो विपरिवर्ततेयदुक्तम् शेषत्वात्पुरुषार्थवादः’ (ब्र. सू. ३ । ४ । २) इति, तत् नोपपद्यतेकस्मात् ? अधिकोपदेशात्यदि संसार्येव आत्मा शारीरः कर्ता भोक्ता शरीरमात्रव्यतिरेकेण वेदान्तेषु उपदिष्टः स्यात् , ततो वर्णितेन प्रकारेण फलश्रुतेरर्थवादत्वं स्यात्अधिकस्तावत् शारीरादात्मनः असंसारी ईश्वरः कर्तृत्वादिसंसारिधर्मरहितोऽपहतपाप्मत्वादिविशेषणः परमात्मा वेद्यत्वेनोपदिश्यते वेदान्तेषु तद्विज्ञानं कर्मणां प्रवर्तकं भवति, प्रत्युत कर्माण्युच्छिनत्तिइति वक्ष्यति उपमर्दं ’ (ब्र. सू. ३ । ४ । १६) इत्यत्रतस्मात् पुरुषार्थोऽतः शब्दात्’ (ब्र. सू. ३ । ४ । १) इति यन्मतं भगवतो बादरायणस्य, तत् तथैव तिष्ठति; शेषत्वप्रभृतिभिर्हेत्वाभासैश्चालयितुं शक्यतेतथा हि तमधिकं शारीरात् ईश्वरमात्मानं दर्शयन्ति श्रुतयःयः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९) भीषास्माद्वातः पवते’ (तै. उ. २ । ८ । १) महद्भयं वज्रमुद्यतम्’ (क. उ. २ । ३ । २) एतस्य वा अक्षरस्य प्रशासने गार्गि’ (बृ. उ. ३ । ८ । ९) तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इत्येवमाद्याःयत्तु प्रियादिसंसूचितस्य संसारिण एव आत्मनो वेद्यतया अनुकर्षणम्आत्मनस्तु कामाय सर्वं प्रियं भवतिआत्मा वा अरे द्रष्टव्यः’ (बृ. उ. २ । ४ । ५) यः प्राणेन प्राणिति आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) एषोऽक्षिणि पुरुषो दृश्यते’ (छा. उ. ८ । ७ । ४) इत्युपक्रम्य एतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छा. उ. ८ । ९ । ३) इति चैवमादितदपि, अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः’ (बृ. उ. २ । ४ । १०) योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’ (बृ. उ. ३ । ५ । १) परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते उत्तमः पुरुषः’ (छा. उ. ८ । १२ । ३) इत्येवमादिभिर्वाक्यशेषैः सत्यामेव अधिकोपदिदिक्षायाम् , अत्यन्ताभेदाभिप्रायमित्यविरोधःपारमेश्वरमे हि शारीरस्य पारमार्थिकं स्वरूपम्; उपाधिकृतं तु शारीरत्वम् , तत्त्वमसि’ (छा. उ. ६ । ८ । ७) नान्यदतोऽस्ति द्रष्टृ’ (बृ. उ. ३ । ८ । ११) इत्यादिश्रुतिभ्यःसर्वं एतत् विस्तरेणास्माभिः पुरस्तात् तत्र तत्र वर्णितम् ॥ ८ ॥

सूत्रं योजयति -

तुशब्दादिति ।

पक्षविपस्विर्तमानमेव पक्षमनूद्य दर्शयति -

यदिति ।

अनुपपत्तिहेतुं प्रश्नपूर्वकमाह -

कस्मादिति ।

अधिकोपदेशं व्यतिरेकतो दर्शयति -

यदीति ।

यः कर्ता कर्माङ्गं नासौ वेदान्तवेद्यो यच्च ब्रह्म तद्वेद्यं न तत्कर्माङ्गमतस्तज्ज्ञानस्य कुतः शेषता कुतस्तरां फलश्रुतेरर्थवादतेत्यर्थः ।

ब्रह्मात्मधीर्न क्रतुप्रयोगविधिनोपादेया तद्विरोधित्वादादीयमानोदितहोमविरोध्यनुदितहोमवदिति मत्वाह -

प्रत्युतेति ।

बागरायणस्येत्यादि व्याचष्टे -

तस्मादिति ।

उक्तात्मज्ञानस्य क्रतुशेषत्वायोगस्तच्छब्दार्थः ।

अधिकोपदेशासिद्धिमाशङ्क्य तद्दर्शनादित्यनेन प्रत्याह -

तथाहीति ।

क्रत्वपेक्षितं रूपं हित्वाऽन्यदात्मरूपमनिष्टमित्युक्तं, तत्राह -

यत्त्विति ।

आत्मनस्तु कामायेत्युपक्रम्यात्मा वा अरे द्रष्टव्य इति वाक्यं ब्रह्मोपदिदिक्षायां सत्याभेव ब्रह्मात्मैक्याभिप्रायमित्यत्र वाक्यशेषमाह -

अस्येति ।

यः प्राणेनेत्यादि वाक्यमप्यैक्यपरमित्यत्र वाक्यशेषं दर्शयति -

योऽशनायेति ।

य एषोऽक्षिणीत्यादिवाक्यमपि तथेत्यस्मिन्नर्थे शेषानुगुण्यमाह -

परमिति ।

उक्तैः शेषैः संसारिणो यदधिकं ब्रह्म तस्योपदिदिक्षायां सत्यामेव ब्रह्मणो जीवस्यात्यन्तभेदाभावधिया द्रष्टव्यादिवाक्यमिति क्रत्वनपेक्षितमात्मरूपं वेदान्तेषु विवक्षितमित्युपगमे न कश्चिद्विरोधोऽस्तीति योजना ।

कुतो जीवब्रह्मैक्य मिथो विरोधादित्याशङ्क्य तात्त्विको विरोधो नास्तीत्याह -

पारमेश्वरमिति ।

प्रातिभासिकस्तु विरोधस्तात्त्विकाभेदाविरोधीति मत्वाह -

उपाधीति ।

जीवस्य तात्त्विकं रूपं ब्रह्मैवेत्यत्र श्रुतिसंवादमाह -

तत्त्वमिति ।

सम्पदादिविषयं तत्त्वमादिवाक्यं न वस्तुविषयमित्याशङ्क्याह -

सर्वं चेति ॥ ८ ॥