ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
असार्वत्रिकी ॥ १० ॥
यदेव विद्यया करोति’ (छा. उ. १ । १ । १०) इत्येषा श्रुतिर्न सर्वविद्याविषया, प्रकृतविद्याभिसम्बन्धात्प्रकृता उद्गीथविद्याओमित्येतदक्षरमुद्गीथमुपासीत’ (छा. उ. १ । १ । १) इत्यत्र ॥ १० ॥

तद्विभजते -

यदेवेति ।

विद्याशब्दस्य सामान्यविषयस्य विशेषाकाङ्क्षस्य प्राकरणिकविशेषेण चरितार्थत्वादिति हेतुमाह -

प्रकृतेति ।

आत्मधियस्तथात्वशङ्कां प्रत्याह -

प्रकृता चेति ॥ १० ॥