ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
स्तुतयेऽनुमतिर्वा ॥ १४ ॥
कुर्वन्नेवेह कर्माणि’ (ई. उ. २) इत्यत्र अपरो विशेष आख्यायतेयद्यपि अत्र प्रकरणसामर्थ्यात् विद्वानेवकुर्वन्इति सम्बध्यते, तथापि विद्यास्तुतये कर्मानुज्ञानम् एतद्द्रष्टव्यम् कर्म लिप्यते नरे’ (ई. उ. २) इति हि वक्ष्यतिएतदुक्तं भवतियावज्जीवं कर्म कुर्वत्यपि विदुषि पुरुषे कर्म लेपाय भवति, विद्यासामर्थ्यादितितदेवं विद्या स्तूयते ॥ १४ ॥

विद्वद्विषयत्वमुपेत्य परिहारान्तरमाह -

स्तुतय इति ।

एवं तर्हि प्रकरणमभग्नमिति मत्वा सूत्रं विभजते -

कुर्वन्नेवेति ।

विशेषमेव विशदयति -

यद्यपीति ।

स्तुत्यर्थं कर्मानुज्ञानमित्यत्र वाक्यशेषमनुकूलयति -

नेति ।

तथापि कथं स्तुतिः, तत्राह -

एतदिति ।

एवं कर्म कुर्वत्यपि त्वयि नेतो ब्रह्मभावाद्विद्यागम्यादन्यथा संसारापत्तिरस्ति यतो न कर्म लिप्यत इति योजनां गृहीत्वोपसंहरति -

तदेवमिति ॥ १४ ॥