ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
उपमर्दं च ॥ १६ ॥
अपि कर्माधिकारहेतोः क्रियाकारकफललक्षणस्य समस्तस्य प्रपञ्चस्य अविद्याकृतस्य विद्यासामर्थ्यात् स्वरूपोपमर्दमामनन्तियत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्’ (बृ. उ. २ । ४ । १४) इत्यादिनावेदान्तोदितात्मज्ञानपूर्विकां तु कर्माधिकारसिद्धिं प्रत्याशासानस्य कर्माधिकारोच्छित्तिरेव प्रसज्येततस्मादपि स्वातन्त्र्यं विद्यायाः ॥ १६ ॥

अधिकोपदेशादित्यत्रात्मनोऽशनायाद्यत्ययात्तद्धीर्न कर्माङ्गमित्युक्तम् । इदानीमशेषक्रियादिविभागोपमर्दकत्वादपि न कर्माङ्गमित्याह -

उपमर्दं चेति ।

इतश्चात्मधीर्न कर्माङ्गमिति चकारार्थमाह -

अपिचेति ।

हेत्वन्तरं स्फोरयति -

कर्मेति ।

विद्यासामर्थ्यात्प्रपञ्चोपमर्दे फलितमाह -

वेदान्तेति ।

आत्मज्ञानस्यादीयमानक्रत्वङ्गविरोधित्वे फलितं निगमयति -

तस्मादिति ॥ १६ ॥