ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
ऊर्ध्वरेतःसु च शब्दे हि ॥ १७ ॥
ऊर्ध्वरेतःसु आश्रमेषु विद्या श्रूयते तत्र कर्माङ्गत्वं विद्याया उपपद्यते, कर्माभावात् हि अग्निहोत्रादीनि वैदिकानि कर्माणि तेषां सन्तिस्यादेतत् , ऊर्ध्वरेतस आश्रमा श्रूयन्ते वेद इतितदपि नास्तितेऽपि हि वैदिकेषु शब्देष्ववगम्यन्तेत्रयो धर्मस्कन्धाः’ (छा. उ. २ । २३ । १) ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’ (छा. उ. ५ । १० । १) तपःश्रद्धे ये ह्युपवसन्त्यरण्ये’ (मु. उ. १ । २ । ११) एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति’ (बृ. उ. ४ । ४ । २२) ब्रह्मचर्यादेव प्रव्रजेत्’ (जा. उ. ४) इत्येवमादिषुप्रतिपन्नाप्रतिपन्नगार्हस्थ्यानाम् अपाकृतानपाकृतर्णत्रयाणां ऊर्ध्वरेतस्त्वं श्रुतिस्मृतिप्रसिद्धम्तस्मादपि स्वातन्त्र्यं विद्यायाः ॥ १७ ॥

विद्यास्वातन्त्र्ये हेत्वन्तरमाह -

ऊर्ध्वरेतःस्विति ।

विद्याकर्मणी नाङ्गाङ्गिभूते मिथो व्यतिरेकित्वादृतुगमननैष्ठिकव्रतवदिति मत्वा योजयति -

ऊर्ध्वेत्यादिना ।

तथापि कथं कर्माङ्गत्वं विद्याया व्यासेध्यते, तत्राह -

नचेति ।

तेषामपि स्नानादि कर्मास्तीत्याशङ्क्याह -

नहीति ।

घावितानुवृत्त्या तत्सद्भावेऽपि वैदिकाग्निहोत्राद्यभावान्न क्रत्वङ्गता ज्ञानस्येत्यर्थः ।

शब्दे हीतिसूत्रावयवव्यावर्त्यामाशङ्कामाह -

स्यादिति ।

सूत्रावयवेनोत्तरमाह -

तदपीति ।

कर्मानधिकृतान्धादिविषयं पारिव्राज्यमित्याशङ्क्याह -

प्रतिपन्नेति ।

ऋणापाकरणे श्रुतिस्मृतिभ्यां गृहस्थस्यैवापाकृतर्णत्रयस्यैवोर्ध्वरेतःशब्दितमैथुनासमाचारोपलक्षितं पारिव्राज्यमित्याशङ्क्याह -

अपाकृतेति ।

साक्षाद्विधिश्रुतिविरोधेऽवादश्रुतिस्मृत्योरबवाध्यतेत्यभिप्रेत्योक्तम् -

श्रुतीति ।

श्रुतिर्व्रह्मचर्यादेव प्रव्रजेदित्याद्या दर्शिता । स्मृतिस्तु तस्याश्रमविकल्पमेके ब्रुवते यमिच्छेत्तमावसेदित्याद्योदाहार्या ।

ऊर्ध्वरेतःस्वाश्रमेषु विद्यायाः सिद्धौ फलितमाह -

तस्मादिति ।

तस्याः स्वातन्त्रये केवलायाः सिद्धा मुक्तिफलतेति वक्तुमितीत्युक्तम् ॥ १७ ॥