पूर्वाधिकरणावान्तरसूत्रेणाक्षेपलक्षणां सङ्गतिं विवक्षन्नाक्षिपति -
परामर्शमिति ।
ऊर्ध्वरेतःशब्दितं पारिव्राज्यं नानुष्ठेयमनुष्ठेयं वेति भ्रान्तिप्रमाणमूलत्वाभ्यां सन्देहे पूर्वपक्षयति -
त्रय इति ।
अत्र शास्त्रीयसम्यग्ज्ञानस्यान्तरङ्गसाधनप्रसङ्गादनुष्ठेयमुच्यत इति स्फुटा पादादिसङ्गतिः । पूर्वपक्षे पारिव्राजके विद्याप्रसिद्धेर्विभ्रमत्वात्तस्या न स्वातन्त्र्यसिद्धिः ।
सिद्धान्ते तस्यास्तत्र प्रामाणिकत्वात्तत्सिद्धिरिति स्वीकृत्य परामर्शं जैमिनिरिति व्याख्याय हेत्वाकाङ्क्षायामचोदनेति हेतुत्वेन व्याचष्टे -
कुत इति ।
पूपा प्रपिष्टभाग इतिवत्कल्प्यतां विधिरित्याशङ्क्य ब्रह्मसंस्थतादिविधिपरत्वाद्वाक्यजातस्य नैवमिति चशब्दार्थमाह -
अर्थान्तरेति ।
तत्र ब्रह्मसंस्थतादिविधिपरत्वं त्रय इत्यादिवाक्यस्य साधयति -
त्रय इत्यादिना ।
अन्यत्र विहितस्यान्यत्र परामर्शादन्यत्र विधिकल्पनादिहैव कल्पना लघ्वीत्याशङ्कते -
नन्विति ।
परामर्शस्यानुवादाख्यस्य पुरोवादापेक्षत्वात्तद्वशादाश्रमप्रतीतिमङ्गीकरोति -
सत्यमिति ।
तर्हि तद्विषयश्रुतेरन्यत्राश्रितत्वाद्गौरवमित्याशङ्क्याह -
स्मृतीति ।
तयोरपि श्रुतिमूलत्वाद्विधियुक्तश्रुतिकल्पनादिहैव तत्कल्पने लाघवमित्याशङ्क्याह -
अतश्चेति ।
प्रत्यक्षश्रुतियावज्जीवादिश्रुतिः ।
निरालम्बनत्वात्कथमपि सालम्बनत्वं युक्तमिति कल्पान्तरमाह -
अनधिकृतेति ।
येऽन्धादयो नित्यादिकर्मस्वनधिकृतास्तद्विषया आश्रमान्तरस्मृतयस्तदाचाराश्चेत्यर्थः ।
आश्रमान्तराणां परामर्शेऽपि गार्हस्थ्यवत्प्रामाणिकत्वसिद्धेरनुष्ठेयतेति शङ्कते -
नन्विति ।
परामर्शसाम्यमङ्गीकरोति -
सत्यमिति ।
तर्हि प्रामाणिकत्वेनानुष्ठेयत्वमपि तुल्यं स्यादित्याशङ्क्य न परामर्शमात्राद्गार्हस्थ्यसिद्धिः ।
अपि तु प्रत्यक्षश्रुतिविधानादिति विशेषमाह -
तथापीति ।
गार्हस्थ्यमेव श्रौतमिति स्थिते ब्रह्मसंस्थतास्तुत्यर्थमेव त्रय इत्याद्याश्रमान्तरवचनमित्युपसंहरति -
तस्मादिति ।
निन्द्यमानत्वाच्चाश्रमान्तरमननुष्ठेयमित्याह -
अपिचेति ।
तत्र सूत्रावयवं योजयति -
अपवदतीति ।
तत्र त्रय इत्यादिवाक्यस्यार्थत्वमुक्त्वा वाक्यान्तरमपि तद्वदेवार्थान्तरपरत्वमाह -
तथेति ।
तेऽर्चिषमभिसम्भवन्ति सूर्यद्वारेण ते विरजाः प्रयान्तीतिवाक्यशेषाद्देवयानोक्तिपरं तदित्यर्थः ।
आश्रमवाचकशब्दाभावाच्चार्थान्तरपरत्वमित्याह -
सन्दिग्धं चेति ।
प्रव्रजन्तीत्याश्रमवाचिशब्ददृष्टेरनुष्ठेयं पारिव्राज्यमित्याशङ्क्याह -
तथेति ।
एवंविशिष्टोऽयमात्मलोको यदेनं साक्षात्कर्तुमिच्छन्तो दुरनुष्ठेयामपि प्रवज्यां कुर्वन्तीति स्तुतिर्न तद्विषयो विधिर्वर्तमानापदेशादित्यर्तः ।
पूर्वपक्षमाक्षिपति -
नन्विति ।
प्रत्यक्षविधानमङ्गीकरोति -
सत्यमिति ।
तर्हि पूर्वपक्षसिद्धिरित्याशङ्क्य नास्तीदं विधानमितिकृत्वा चिन्तेयमित्याह -
अनपेक्ष्येति ॥ १८ ॥