ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
विधिर्वा धारणवत् ॥ २० ॥
यदापि परामर्श एवायमाश्रमान्तराणाम् , तदापि ब्रह्मसंस्थता तावत् , संस्तवसामर्थ्यादवश्यं विधेया अभ्युपगन्तव्यासा किं चतुर्ष्वाश्रमेषु यस्य कस्यचित् , आहोस्वित्परिव्राजकस्यैवेति विवेक्तव्यम्यदि ब्रह्मचार्यन्तेष्वाश्रमेषु परामृश्यमानेषु परिव्राजकोऽपि परामृष्टः, ततश्चतुर्णामप्याश्रमाणां परामृष्टत्वाविशेषात् अनाश्रमित्वानुपपत्तेश्च यः कश्चिच्चतुर्ष्वाश्रमेषु ब्रह्मसंस्थो भविष्यतिअथ परामृष्टः, ततः परिशिष्यमाणः परिव्राडेव ब्रह्मसंस्थ इति सेत्स्यतितत्र तपःशब्देन वैखानसग्राहिणा परामृष्टः परिव्राडपि इति केचित्तदयुक्तम्; हि सत्यां गतौ वानप्रस्थविशेषणेन परिव्राजको ग्रहणमर्हतियथा अत्र ब्रह्मचारिगृहमेधिनौ असाधारणेनैव स्वेन स्वेन विशेषणेन विशेषितौ, एवं भिक्षुवैखानसावपीति युक्तम्तपश्च असाधारणो धर्मो वानप्रस्थानां कायक्लेशप्रधानत्वात् , तपःशब्दस्य तत्र रूढेःभिक्षोस्तु धर्म इन्द्रियसंयमादिलक्षणो नैव तपःशब्देनाभिलप्यतेचतुष्ट्वेन प्रसिद्धा आश्रमाः त्रित्वेन परामृश्यन्त इत्यन्याय्यम्अपि भेदव्यपदेशोऽत्र भवतित्रय एते पुण्यलोकभाजः, एकोऽमृतत्वभागितिपृथक्त्वे चैष भेदव्यपदेशोऽवकल्पते ह्येवं भवतिदेवदत्तयज्ञदत्तौ मन्दप्रज्ञौ, अन्यतरस्त्वनयोर्महाप्रज्ञ इतिभवति त्वेवम्देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ, विष्णुमित्रस्तु महाप्रज्ञ इतितस्मात् पूर्वे त्रय आश्रमिणः पुण्यलोकभाजः, परिशिष्यमाणः परिव्राडेवामृतत्वभाक्कथं पुनः ब्रह्मसंस्थशब्दो योगात्प्रवर्तमानः सर्वत्र सम्भवन् परिव्राजक एवावतिष्ठेत ? रूढ्यभ्युपगमे आश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इति; अत्रोच्यतेब्रह्मसंस्थ इति हि ब्रह्मणि परिसमाप्तिः अनन्यव्यापारतारूपं तन्निष्ठत्वमभिधीयतेतच्च त्रयाणामाश्रमाणां सम्भवति, स्वाश्रमविहितकर्माननुष्ठाने प्रत्यवायश्रवणात्परिव्राजकस्य तु सर्वकर्मसंन्यासात् प्रत्यवायो सम्भवति अननुष्ठाननिमित्तःशमदमादिस्तु तदीयो धर्मो ब्रह्मसंस्थताया उपोद्बलकः, विरोधीब्रह्मनिष्ठत्वमेव हि तस्य शमदमाद्युपबृंहितं स्वाश्रमविहितं कर्मयज्ञादीनि इतरेषाम्तद्व्यतिक्रमे तस्य प्रत्यवायःतथा न्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्मा तानि वा एतान्यवराणि तपाꣳसि न्यास एवात्यरेचयत्’ (ना. उ. ७८) वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः’ (मु. उ. ३ । २ । ६)(ना. उ. १२ । ३)(कै. उ. ३) इत्याद्याः श्रुतयः, स्मृतयश्च तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः’ (भ. गी. ५ । १७) इत्याद्याःब्रह्मसंस्थस्य कर्माभावं दर्शयन्तितस्मात् परिव्राजकस्य आश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इत्येषोऽपि दोषो नावतरतितदेवं परामर्शेऽपि इतरेषामाश्रमाणाम् , पारिव्राज्यं तावद्ब्रह्मसंस्थतालक्षणं लभ्यत एवअनपेक्ष्यै जाबालश्रुतिमाश्रमान्तरविधायिनीम् अयमाचार्येण विचारः प्रवर्तितः; विद्यत एव तु आश्रमान्तरविधिश्रुतिः प्रत्यक्षाब्रह्मचर्यं परिसमाप्य गृही भवेद्गृही भूत्वा वनी भवेद्वनी भूत्वा प्रव्रजेत्यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा’ (जा. उ. ४) इति इयं श्रुतिः अनधिकृतविषया शक्या वक्तुम् , अविशेषश्रवणात् , पृथग्विधानाच्च अनधिकृतानाम्अथ पुनरेव व्रती वाऽव्रती वा स्नातको वाऽस्नातको वोत्सन्नाग्निरनग्निको वा’ (जा. उ. ४) इत्यादिनाब्रह्मज्ञानपरिपाकाङ्गत्वाच्च पारिव्राज्यस्य अनधिकृतविषयत्वम् , तच्च दर्शयतिअथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय भवति’ (जा. उ. ५) इतितस्मात्सिद्धा ऊर्ध्वरेतसामाश्रमाःसिद्धं ऊर्ध्वरेतःसु विधानाद्विद्यायाः स्वातन्त्र्यमिति ॥ २० ॥

परामर्शपक्षमेवावलम्ब्याश्रमाणां परामर्शेऽपि पारिव्राज्यस्य विधिरेष्टव्योऽन्यथा स्तुत्ययोगादित्याह -

यदेति ।

ब्रह्मसंस्थतया यत्स्तूयते तद्विधीयत इति न्यायाद्विधेयत्वेऽपि पारिव्राज्यस्य किं स्यादित्याशङ्क्य तदर्थं विचारमवतारयति -

सा चेति ।

पक्षद्वयस्य निर्बीजत्वान्नेदं विचार्यमित्याशङ्क्य परामर्शश्रुतौ परिव्राजकोऽपि परामृष्टो न वेति विकल्प्याद्यमनूद्य प्रथमपक्षप्राप्तिमाह -

यदीति ।

परामृष्टत्वाविशेषाच्चतुर्ष्वाश्रमेषु यः कश्चिद्ब्रह्मसंस्थो भविष्यतीति सम्बन्धः ।

ब्रह्मसंस्थोऽनाश्रमी कस्मान्न स्यादित्याशङ्क्यानाश्रमित्वस्य निन्द्यमानत्वादित्याह -

अनाश्रमित्वेति ।

द्वितीयमनूद्य द्वितीयपक्षप्राप्तिमाह -

अथेति ।

पक्षयोः सम्भावनया विचारारम्भमुक्त्वा पूर्वपक्षमाह -

तत्रेति ।

परिव्राजकस्यापि यमनियमादितपःसम्भवादित्यर्थः ।

आश्रमाणामेकैकशोऽसाधारणधर्मरूपदर्शनायोपक्रमात्तदनुसारेण चोपसंहारस्य युक्तत्वात्तपःशब्देन नोभयग्रहणमिति दूषयति -

तदिति ।

किं तर्हि युक्तं तदाह -

यथेति ।

कस्तर्हि तपःशब्दार्थः, तत्राह -

तपश्चेति ।

तेषां तत्प्रधानत्वेऽपि तपःशब्दस्य साधारण्यं किंं न स्यात् , तत्राह -

तपःशब्दस्येति ।

तस्य कृच्छ्रादौ रूढेरन्यत्र तदभावात्तेन वानप्रस्थ एव परामृश्यत इत्यर्थः ।

कथं तर्हि परिव्राजकधर्मेऽपि तपःशब्दप्रयोगः, तत्राह -

भिक्षोस्त्विति ।

इतश्च पूर्वं परिव्राजको नोक्त इत्याह -

चतुष्ट्वेनेति ।

नहि प्रसिद्धसङ्ख्याभेदेषु सङ्ख्यान्तरोक्तिर्युक्तेत्यर्थः ।

पृथगुक्तिसामर्थ्यादपि प्रकृताश्रमत्रयातिरिक्तो ब्रह्मसंस्थ इत्याह -

अपिचेति ।

भेदव्यपदेशेऽपि कथं पृथक्त्वं, तत्राह -

पृथक्त्वे चेति ।

सर्व एते पुण्यलोका इत्यत्र भिक्षुरपि परामृष्टश्चेत्तस्याब्रह्मसंस्थत्वाभावादमृतत्वमेवेति न पुण्यलोकत्वं विरोधात् । नच तपःशब्देन भिक्षोरपि ग्रहे तद्वर्जनं युक्तमेत इति प्रकृतानां कार्त्स्न्येन परामर्शात् । तस्माद्भेदोक्त्या पृथक्त्वमेवेत्यर्थः ।

अपृथक्त्वे भेदोक्तिरयुक्तेत्यत्र दृष्टान्तमाह -

नहीति ।

पृथक्त्वे तु तदुक्तिर्युक्तेत्याह -

भवतीति ।

न चावस्थाभेदापेक्षया दृष्टान्तदार्ष्टान्तिकयोः सिद्धिरपृथक्त्वेऽपीति वाच्यम् ।

सति कर्मित्वे मन्दप्रज्ञत्वे च ब्रह्मसंस्थताया महाप्रज्ञत्वस्य चायोगात्पृथक्त्वध्रौव्यादिति मत्वोपसंहरति -

तस्मादिति ।

किमेष ब्रह्मसंस्थशब्दो यौगिको रूढो वेति विकल्प्याद्ये न परिव्राजकमात्रविषयतेति शङ्कते -

कथमिति ।

द्वितीयं निराह -

रूढीति ।

यौगिकत्वमुपेत्य परिहरति -

अत्रेति ।

यथोक्तं ब्रह्मसंस्थत्वमन्येषामपि सिध्यतीत्याशङ्क्याह -

तच्चेति ।

तुल्यं संन्यासिनोऽपि स्वाश्रमकर्माननुष्ठाने प्रत्यावायित्वं तत्कुतोऽस्य ब्रह्मसंस्थत्वं, तत्राह -

परिव्राजकस्येति ।

तस्यापि शमदमाद्यनुष्ठेयमिति कुतो ब्रह्मसंस्थतेत्याशङ्क्याह -

शमेति ।

तत्र हेतुः -

ब्रह्मेति ।

शमादेर्ब्रह्मसंस्थताङ्गत्वान्न तद्विरोधितेत्यर्थः ।

गृहस्थादीनामपि ब्रह्मसंस्थितत्वाविरोध्येव स्वाश्रमविहितं कर्मेत्याशङ्क्याह -

यज्ञेति ।

तानि हि रागाद्याक्षिप्तानि न च रागादिमतां ब्रह्मसंस्थतेति भावः ।

शमदमाद्युपेतं ब्रह्मनिष्ठत्वमेव संन्यासिनः स्वाश्रमकर्मेत्युक्तं तदकरणे तस्य प्रत्यवायित्वं त्वम्पदार्थविवेकायैवेति स्मृतेरित्याह -

तदिति ।

चकारादितरेषामपि तत्तदाश्रमकर्मातिक्रमे प्रत्यवायित्वमकुर्वन्विहितं कर्मेत्यादिस्मृतिरपि सूच्यते ।

संन्यासिनः सर्वकर्मत्यागेन ब्रह्मसंस्थत्वमेव स्वाश्रमकर्मेत्यत्र मानमाह -

तथाचेति ।

न्यासः संन्यासो ब्रह्मेति स्तूयते ।

तत्र हेतुमाह -

ब्रह्मा हीति ।

हिरण्यगर्भो हि श्रुतिस्मृतिषु परोऽभीष्टस्तथापि कथं सन्यासस्तदात्मकः, तत्राह -

परो हीति ।

तस्य परत्वे हेतुः -

ब्रह्मेति ।

तद्धीहेतुत्वात्परो यस्मादेष संन्यासस्तस्माद्ब्रह्मेत्यर्थः ।

तस्य परत्वं स्फोरयति -

तानीति ।

पूर्वोक्तानि सत्यादीनि प्रसिद्धानि तानि ज्ञानहीनान्यवराण्येतानि तपांसि निकृष्टत्वहेतुत्वान्न्यास एवैभ्योऽतिरिक्तः श्रेष्ठो ब्रह्मसंस्थताद्वाराऽमृतत्वहेतुत्वादित्यर्थः ।

तस्य कर्मान्तराभावे वाक्यान्तरमाह -

वेदान्तेति ।

शुद्धबुद्ध्या विरक्ताः संन्यासयोगाद्वेदान्तविज्ञानेन सुनिश्चितार्था मुच्यन्त इति वचनात्कर्मान्तराभावः संन्यासिनां भातीत्यर्थः । न कर्मणा न प्रजयेत्याद्या भूयस्यः श्रुतयोऽत्र सन्तीति वक्तुमादिपदम् । तस्मिन्ब्रह्मणि बुद्धिर्मनो येषां ते तथा तदेव ब्रह्मात्मा स्वरूपं येषां ते तदात्मानः ।

तत्रैव निश्चयेन स्थितिमाह -

तन्निष्टा इति ।

विषयान्तरपारवश्यं व्यावर्तयति -

तदिति ।

यथोक्तान्यपि कर्माणि परिहायेत्यादिस्मृतिसङ्ग्रहार्थमादिपदम् ।

उक्तश्रुतितात्पर्यमाह -

ब्रह्मेति ।

ब्रह्मसंस्थशब्दस्य परिव्राजके रूढिमुपेत्योपसंहरति -

तस्मादिति ।

यथा गृहस्थशब्दस्य यौगिकत्वे सत्यतिप्रसङ्गपरिहाराश्रमविशेषे रूढत्वेऽपि न गार्हस्थ्यमात्रात्पुण्यलोकाप्तिः किन्तु यथोक्ताग्निहोत्रादिकरणात् । तथा परिव्राजकस्यापि ब्रह्मसंस्थस्य वाक्यार्थसाक्षात्कारद्वारैव मुख्यममृतत्वमिति । कुतो ज्ञानानर्थक्यमित्यर्थः ।

एवमेकदेशिमतं प्रत्याख्याय ब्रह्मसंस्थशब्दस्य परिव्राजकविषयत्वे स्थिते संस्तवसामर्थ्याद्ब्रह्मसंस्थत्वं पारिव्राज्यमितरपरामर्शेऽपि विधेयमिति परमप्रकृतमुपसंहरति -

तदेवमिति ।

शिष्यबुद्धिविकासार्थं परामर्शश्रुतिमाश्रित्य कृत्वाचिन्तया विचारं कृत्वा कृत्वाचिन्तामुद्धाटयति -

अनपेक्ष्येति ।

यदि वेतरथेति ब्रह्मचर्ये स्थितस्यैव पारिव्राज्येच्छा गार्हस्थ्ये च वैराग्यं दैवयोगाद्यदि स्यादित्यर्थः ।

यत्त्वनधिकृतान्धादिविषयः संन्यासः स्यादिति, तत्राह -

नचेति ।

अविशेषश्रुतिरसति बाधके न विशेषे सङ्कोचमर्हतीत्यर्थः ।

इतश्चेदं वाक्यं नानधिकृतविषयमित्याह -

पृथगिति ।

अनधिकृतानां संन्यासस्येति शेषः । व्रती गोदानादिवेदव्रतवान् । अव्रती तद्विपरीतः । स्नातको गुरुकुलनिवृत्तिरूपस्नानानन्तरमपि गुरुशुश्रूषापरः । तद्विपरीतोऽस्नातकः । उत्सन्नाग्निर्मृतभार्यः पूर्वभेवाग्निपरिग्रहरहितो वा । परिव्रजेदिति कर्माधिकारप्रतिपत्तिहीनानामपि संन्यासस्य पृथगुक्तेर्न वाक्यमनधिकृतविषयमित्यर्थः ।

संन्यासविधेरनधिकृताविषयत्वे हेत्वन्तरमाह -

ब्रह्मेति ।

श्रवणादिद्वारा संन्यासस्य ब्रह्मज्ञानदार्ढ्यार्थत्वं प्रकरणादिसिद्धं तेन समर्थस्यैवाधिकारस्तस्मिन्नित्यर्थः ।

पारिव्राज्यस्य ब्रह्मधीदार्ढ्यार्थत्वे श्रुतिं प्रमाणयति -

तच्चेति ।

ब्रह्मभूयाय ब्रह्मभावाय तत्साक्षात्कारायेत्यर्थः ।

अन्तर्गर्भिताधिकरणार्थमुपसंहरति -

तस्मादिति ।

प्रामाणिकत्वं तच्छब्दार्थः ।

तेषां प्रमितत्वेनानुष्ठीयमानत्वेऽपि प्रकृते किं जातमित्याशङ्क्य प्रथमाधिकरणार्थं निगमयति -

सिद्धं चेति ॥ २० ॥