ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ २१ ॥
एष रसानां रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः’ (छा. उ. १ । १ । ३) इयमेवर्गग्निः साम’ (छा. उ. १ । ६ । १) अयं वाव लोकः एषोऽग्निश्चितः ।’(श॰ब्रा॰ १०-१-२-२), तदिदमेवोक्थमियमेव पृथिवी(ऐ॰आ॰ २-१-२)’ इत्येवंजातीयकाः श्रुतयः किमुद्गीथादेः स्तुत्यर्थाः, आहोस्वित् उपासनाविध्यर्था इत्यस्मिन्संशयेस्तुत्यर्था इति युक्तम् , उद्गीथादीनि कर्माङ्गान्युपादाय श्रवणात्यथाइयमेव जुहूरादित्यः कूर्मः स्वर्गो लोक आहवनीयःइत्याद्या जुह्वादिस्तुत्यर्थाः, तद्वत्इति चेत् , नेत्याह हि स्तुतिमात्रमासां श्रुतीनां प्रयोजनं युक्तम् , अपूर्वत्वात्विध्यर्थतायां हि अपूर्वोऽर्थो विहितो भवतिस्तुत्यर्थतायां त्वानर्थक्यमेव स्यात्विधायकस्य हि शब्दस्य वाक्यशेषभावं प्रतिपद्यमाना स्तुतिरुपयुज्यत इत्युक्तम् विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः’(जै॰सू॰ १-२-७) इत्यत्रप्रदेशान्तरविहितानां तु उद्गीथादीनाम् इयं प्रदेशान्तरपठिता स्तुतिः वाक्यशेषभावमप्रतिपद्यमाना अनर्थिकैव स्यात् । ‘इयमेव जुहूःइत्यादि तु विधिसन्निधावेवाम्नातमिति वैषम्यम्तस्मात् विध्यर्था एव एवंजातीयकाः श्रुतयः ॥ २१ ॥

अनुष्ठेयसाम्यश्रुतेराश्रमान्तरमनुष्ठेयतया विधेवमित्युक्तम् । सम्प्रति रसतमत्वादीनामङ्गाश्रितत्वेनेयमेव जुहूरित्यादिश्रुतितुल्यतया स्तुत्यर्थत्वमित्याशङ्क्य प्रत्याह -

स्तुतीति ।

अधिकरणस्य विषयं वदन्वाक्यानि पठति -

स इति ।

एषां भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय ओषधीनां पुरुषः पुरुषस्य वाग्वाच ऋगृचः साम साम्न उद्गीथो रस इत्युपक्रम्य श्रूयते स एष रसानां पृथिव्यादीनां सामान्यानां भूतेषूत्तरोत्तरं सारत्वेनोक्तानामतिशयेन सारो रसतमः परमः परमात्मप्रतीकत्वात्परस्य ब्रह्मणोऽर्धं स्थानं तदर्हतीति परार्ध्यः परब्रह्मवदुपास्य इत्यर्थः । पृथिव्याद्यपेक्षयाष्टमः कोऽसौ यदुद्गीथो य उद्गीथ ओङ्कार इत्यर्थः । उद्गीथाद्यङ्गावबद्धश्रुतीरधिकृत्य पर्णमयित्वादावङ्गसम्बन्धे विध्युपलब्धेस्तथाविधेऽपि स्वर्गो लोक इत्यादौ स्तुत्युपलब्धेश्च संशयमाह -

किमिति ।

अङ्गावबद्धानामपि बुद्धीनां स्तुतित्वाभावाद्विधेयतया स्वातन्त्र्येण पुरुषार्थहेतुत्वे सत्यनङ्गात्मधियः स्वतन्त्रतया फलवत्त्वमुपनिषदुत्पन्नायाः किं वक्तव्यमित्युक्तेरत्र पादादिसङ्गतिः । पूर्वपक्षे स्तुतित्वादङ्गधीष्वनुष्ठानासिद्धिः ।

सिद्धान्ते तासां विधेयत्वात्तत्सिद्धिरित्यङ्गीकृत्य संशयमनूद्य पूर्वपक्षयति -

इत्यस्मिन्निति ।

विमताः प्रत्ययाः स्तुतयः कर्माङ्गेषूत्कृष्टपदार्थाध्यासप्रत्ययरूपत्वात्स्वर्गो लोक आहवनीय इत्यादिप्रत्ययवदित्यर्थः । जुहूरियमेव पृथिवीति स्तूयते कूर्मश्चयनगतः सन्नादित्य इत्याहवनीयोऽग्निः स्वर्गो लोक इतिवत्स्तुतिरेवेत्यर्थः ।

स्तुतिकल्पनाद्विधिकल्पनमेव युक्तमनुष्ठानफलाभावादिति परिहरति -

नेत्यादिना ।

विमताः प्रत्यया न कर्माङ्गस्तुतयोऽपूर्वार्थत्वात्क्रत्वन्तरवदित्याह -

नेति ।

विमता धियो न कर्माङ्गस्तुतयो विशिष्टफलसम्बन्धित्वात्संमतवदित्याह -

विधीति ।

वायुर्वै क्षेपिष्ठेत्यादिवदुद्गीथादिश्रुतीनां स्तुत्यर्थत्वेऽपि कस्मादर्थवत्त्वं न स्यादित्याशङ्क्याह -

विधायकस्येति ।

अस्तु तर्हि विधायकशब्दशेषत्वेनैवोद्गीथादिश्रुतीनामपि स्तावकतयार्थवादत्वम् ।

तत्र वाच्यं किमुद्गीथादिप्रत्ययैरुद्गीथादिविधिः स्तूयते किंवा तदुपास्तिविधिरिति विकल्प्याद्यं दूषयति -

प्रदेशान्तरेति ।

उद्गीथादिविधेः कर्मप्रकरणस्थत्वेन व्यवधानान्न तेनोद्गीथादिश्रुतीनामेकवाक्यता । विमता धियो न कर्माङ्गस्तुतयोऽतत्प्रकरणस्थत्वात्क्रत्वन्तरवदिति भावः ।

परोक्तं दृष्टान्तं विघटयति -

इयमेवेति ।

अनुमानत्रयफलं निगमयति -

तस्मादिति ॥ २१ ॥