ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ २३ ॥
अथ याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी कात्यायनी ’ (बृ. उ. ४ । ५ । १) प्रतर्दनो वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम’ (कौ. उ. ३ । १) जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस’ (छा. उ. ४ । १ । १) इत्येवमादिषु वेदान्तपठितेष्वाख्यानेषु संशयःकिमिमानि पारिप्लवप्रयोगार्थानि, आहोस्वित्सन्निहितविद्याप्रतिपत्त्यर्थानीतिपारिप्लवार्था इमा आख्यानश्रुतयः, आख्यानसामान्यात् , आख्यानप्रयोगस्य पारिप्लवे चोदितत्वात्ततश्च विद्याप्रधानत्वं वेदान्तानां स्यात् , मन्त्रवत् प्रयोगशेषत्वादिति चेत्तन्नकस्मात् ? विशेषितत्वात् — ‘पारिप्लवमाचक्षीतइति हि प्रकृत्य, ‘मनुर्वैवस्वतो राजाइत्येवमादीनि कानिचिदेव आख्यानानि तत्र विशेष्यन्तेआख्यानसामान्याच्चेत् सर्वगृहीतिः स्यात् , अनर्थकमेवेदं विशेषणं भवेत्तस्मात् पारिप्लवार्था एता आख्यानश्रुतयः ॥ २३ ॥

उद्गीथादिश्रुतेरुपास्तिविषयार्पकत्वं ज्यायो रसतमत्वादेरित्युक्तम् । अधुनाख्यानानामपि विद्यास्तुतेः सकाशात्पारिप्लवशेषत्वं ज्यायोऽनुष्ठानावसानयोगादित्यशङ्क्य परिहरति -

पारिप्लवेति ।

विषयोक्तिपूर्वकमाख्यानत्वसाम्याद्विद्यासंनिधेश्च संशयमाह -

अथेत्यादिना ।

पारिप्लवप्रयोगो नानाश्वमेधे पुत्रामात्यपरिवृताय राज्ञे पारिप्लवमाचक्षीतेत्यादिना नानाविधाख्यानकथनं विहितम् । अत्र चोपनिषद्गताख्यानानां तादर्थ्यनिरासेन तत्र तत्र संनिहितस्वतन्त्रपुरुषार्थहेतुविद्यार्थत्वसमर्थनात्पादादिसङ्गतिः । पूर्वपक्षे प्रयोगशेषत्वादाख्यानानां वेदान्तगतानामपि तद्भावाद्विद्याप्राधान्यासिद्धिः ।

सिद्धान्ते विशेषणादुपनिषदाख्यानानां व्यवच्छेदात्तेषामप्रयोगशेषत्वाद्विद्याप्रधानत्वसिद्धिरिति स्वीकृत्य पूर्वपक्षयति -

पारिप्लवेति ।

गुरुशिष्यसमाचारप्रदर्शनेन बुद्धिसौकर्यद्वारा च विद्याशेषत्वं सामर्थ्यलिङ्गादासां सिद्धमित्याशङ्क्य पारिप्लवश्रुतिविरोधे लिङ्गमप्रयोजकमित्याह -

आख्यानेति ।

यस्याश्विने शस्यमाने सूर्योऽभ्युदियादपि सर्वा दाशतयीरनुब्रूयादिति सर्वासामृचामाश्विनग्रहशसने सर्वश्रुत्या विनियुक्तानामपि प्रातिस्विकविनियोगवदाख्यानानां पारिप्लवे पारिप्लवमाचक्षीतेति चोदितानामेतेन लिङ्गेन संनिधेर्वा विद्यायां विनियोगः स्यादित्याशङ्क्य प्रातिस्विकविनियोगस्य समुदायविनियोगस्य च श्रौतत्वेन तुल्यत्वात्प्रकृते च तदभावान्मैवमित्याह -

ततश्चेति ।

आख्यानानां प्रयोगशेषत्वेऽपि सर्वेषां वेदान्तानामतच्छेषत्वाद्युक्तं विद्याप्रधानत्वमित्याशङ्क्याह -

मन्त्रवदिति ।

देवस्य त्वेत्यादिमन्त्रे कस्यचिदेव पदस्य समवेतार्थतया प्रयोगशेषत्वे सिद्धे तदेकवाक्यतया पदान्तराणामपि तच्छेषत्वमिष्टम् । तथाख्यानानां प्रयोगशेषत्वे तदेकवाक्यत्वेन सर्वोपनिषदां तच्छेषत्वान्न विद्याप्रधानतेत्यर्थः ।

सामान्यश्रुतेर्विशेषोक्त्याऽतत्परत्वान्न तया लिङ्गादिबाधोऽस्तीति सिद्धान्तयति -

तन्नेत्यादिना ।

अश्वमेधे प्रथमेऽहनि मनुर्वैवस्वतो राजेत्याह । द्वितीयेऽहनि यमो वैवस्वत इति । तृतीयेऽहनि वरुण आदित्य इत्याद्याख्यानविशेषा वाक्यशेषे श्रुतास्तद्बलादुपक्रमस्य सङ्कोचो युक्तः । न चोपक्रमस्थसर्वशब्दादुपसंहारस्था विशेषोक्तिरुपलक्षणार्थेति वाच्यम् । आदौ सर्वाण्याख्यानानि पारिप्लवे शंसतीत्युक्त्वा पारिप्लवमाचक्षीतेति च विधाय मनुर्वैवस्वत इत्यादि पठ्यते । तत्र पुनर्विधानं वाक्यशेषस्थाख्याननियमार्थमन्यथा वैयर्थ्यात् ।

सर्वशब्दोऽपि वाक्यशेषस्थोपाख्यानमध्यस्थकतिपयप्रयोगमात्रेणोपरमं व्यावर्तयितुमित्यर्थवानिति मत्वा सिद्धान्तं विवृणोति -

पारिप्लवमिति ।

यत्त्वाख्यानसामान्यात्पारिप्लवार्था इमाः श्रुतय इति, तत्राह -

आख्यानेति ।

विशेषणफलं निगमयति -

तस्मादिति ॥ २३ ॥