ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
तथा चैकवाक्यतोपबन्धात् ॥ २४ ॥
असति पारिप्लवार्थत्वे आख्यानानां सन्निहितविद्याप्रतिपादनोपयोगितैव न्याय्या, एकवाक्यतोपबन्धात्तथा हि तत्र तत्र सन्निहिताभिर्विद्याभिरेकवाक्यता दृश्यते प्ररोचनोपयोगात् प्रतिपत्तिसौकर्योपयोगाच्चमैत्रेयीब्राह्मणे तावत्आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. ४ । ५ । ६) इत्याद्यया विद्यया एकवाक्यता दृश्यते; प्रातर्दनेऽपिप्राणोऽस्मि प्रज्ञात्माइत्याद्यया । ‘जानश्रुतिःइत्यत्रापि वायुर्वाव संवर्गः’ (छा. उ. ४ । ३ । १) इत्याद्ययायथा आत्मनो वपामुदखिदत्इत्येवमादीनां कर्मश्रुतिगतानामाख्यानानां सन्निहितविधिस्तुत्यर्थता, तद्वत्तस्मान्न पारिप्लवार्थत्वम् ॥ २४ ॥

तर्हि कुत आख्यानान्युपयुक्तानीत्याशङ्क्य विशेषणश्रुत्या सर्वश्रुतौ भग्नायां निर्बाधः संनिधिर्विद्यास्वेवोपनिषदाख्यानानि नियुञ्जीतेत्याह -

तथाचेति ।

सूत्रार्थं विवृणोति -

असतीति ।

एकवाक्यतोपसम्बन्धं विभजते -

तथाहीति ।

प्ररोचनमनुरागजननम् ।

संनिहितविद्याभिराख्यानानामेकवाक्यताप्रतीतिमुदाहरति -

मैत्रेयीति ।

आख्यानत्वेऽपि पारिप्लवार्थत्वादर्शनाच्च न तादर्थ्यं प्रकृताख्यानानामित्याह -

यथेति ।

उदखिददुद्धृतवान्होमायेति यावत् ।

श्रुतिलिङ्गसंनिधिभिर्विद्यार्थत्वे सिद्धे फलितमुपसंहरति -

तस्मादिति ॥ २४ ॥