ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अत एव चाग्नीन्धनाद्यनपेक्षा ॥ २५ ॥
पुरुषार्थोऽतः शब्दात्’ (ब्र. सू. ३ । ४ । १) इत्येतत् व्यवहितमपि सम्भवात्अतःइति परामृश्यतेअत एव विद्यायाः पुरुषार्थहेतुत्वात् अग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीति आद्यस्यैवाधिकरणस्य फलमुपसंहरत्यधिकविवक्षया ॥ २५ ॥

कथानां विद्याशेषत्वे दर्शिते कर्मणामपि तर्हि तच्छेषत्वं तच्छेषत्वाभावेऽपि स्यादित्याशङ्क्य प्रसङ्गागतं विचारं परिसमाप्य पुरुषार्थाधिकरणस्य फलमाह -

अत इति ।

ब्रह्मविद्या मोक्षे कर्माणीतिकर्तव्यत्वेनापेक्षते न वेति वादिविप्रतिपत्तेः सन्देहे यज्ञेनेति विविदिषायां विनियुक्तयज्ञादीनां विषयसौन्दर्यलभ्यायां तस्यामनन्वयात्तद्विषयज्ञानसाध्यमोक्षान्वयस्य युक्तत्वादपेक्षत इति पूर्वपक्षे काष्ठैः पचतीत्यत्र पाकसाधनज्वालाजनककाष्ठानां पाकहेतुत्वादर्शनाज्ज्ञानेच्छाजनकान्तःकरणशुद्धिहेतुत्वेन यज्ञादीनां ज्ञानेच्छाहेतुत्वसिद्धेः साक्षादेव मोक्षान्वये च यज्ञेनेत्यादिकरणविभक्तिभङ्गात्पारम्पर्यस्यैवोपेयत्वान्नापेक्षत इति सिद्धान्तः ।

एतदभिप्रेत्य संनिहितस्यातःशब्दपरामर्शयोग्यस्याभावादतःपदानुपपत्तिमाशङ्क्य सूत्राक्षराणि योजयति -

पुरुषार्थ इति ।

आद्याधिकरणे यथा विद्यायाः स्वातन्त्र्येण पुमर्थहेतुत्वमुक्तं तच्च तथैवानूद्यते । तथा चाग्नेयादिष्वदर्शनान्न पुरुषार्थहेतुत्वं कर्मापेक्षाविरोधीति निरस्तम् ।

नचात्र पादादिसङ्गतिर्वक्तव्या प्रथमाधिकारणस्यैव तत्फलविषयस्यास्य तस्याः सुगमत्वात्फलमपि पूर्वोत्तरपक्षयोस्तद्वदेवेत्यभिप्रेत्याह -

आद्यस्येति ।

स्वार्थसिद्धावेवानपेक्षा न तु स्वसिद्धौ तत्र तदपेक्षास्तीत्यनन्तराधिकरणे निर्देष्टुमुपसंहार इति तत्फलमाह -

अधिकेति ॥ २५ ॥

ब्रह्मविद्या स्वफले न कर्मापेक्षा प्रमात्वात्संमतवदित्युक्तम् ।