ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २६ ॥
इदमिदानीं चिन्त्यतेकिं विद्याया अत्यन्तमेवानपेक्षा आश्रमकर्मणाम् , उत अस्ति काचिदपेक्षेतितत्र अत एवाग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्ष्यन्ते, इत्येवमत्यन्तमेवानपेक्षायां प्राप्तायाम् , इदमुच्यतेसर्वापेक्षा चेतिअपेक्षते विद्या सर्वाण्याश्रमकर्माणि, नात्यन्तमनपेक्षैवननु विरुद्धमिदं वचनम्अपेक्षते आश्रमकर्माणि विद्या, नापेक्षते चेतिनेति ब्रूमःउत्पन्ना हि विद्या फलसिद्धिं प्रति किञ्चिदन्यदपेक्षते, उत्पत्तिं प्रति तु अपेक्षतेकुतः ? यज्ञादिश्रुतेःतथा हि श्रुतिःतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’ (बृ. उ. ४ । ४ । २२) इति यज्ञादीनां विद्यासाधनभावं दर्शयतिविविदिषासंयोगाच्चैषामुत्पत्तिसाधनभावोऽवसीयतेअथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तत्’ (छा. उ. ८ । ५ । १) इत्यत्र विद्यासाधनभूतस्य ब्रह्मचर्यस्य यज्ञादिभिः संस्तवात् यज्ञादीनामपि हि साधनभावः सूच्यतेसर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि यद्वदन्तियदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीमि’ (क. उ. १ । २ । १५) इत्येवमाद्या श्रुतिः आश्रमकर्मणां विद्यासाधनभावं सूचयतिस्मृतिरपि — ‘कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिःकषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्ततेइत्येवमाद्याअश्ववदिति योग्यतानिदर्शनम्यथा योग्यतावशेन अश्वो लाङ्गलाकर्षणे युज्यते, रथचर्यायां तु युज्यते, एवमाश्रमकर्माणि विद्यया फलसिद्धौ नापेक्ष्यन्ते, उत्पत्तौ अपेक्ष्यन्त इति ॥ २६ ॥

तर्हि न स्वोत्पत्तावपि तदपेक्षा प्रमात्वात्तद्वदेवेत्याशङ्क्याह -

सर्वेति ।

अधिकविवक्षयेत्युक्तं व्यक्तीकुर्वन्ब्रह्मविद्यामधिकृत्य पूर्वाधिकरणन्यायाद्विविदिषाश्रुतेश्च संशयमाह -

इदमिति ।

अत्र च स्वतन्त्रपुरुषार्थहेत्वौपनिषदात्मज्ञानोत्पत्तौ यज्ञादीनां शमादीनां च विविदिषावाक्यीयविनियोगोक्तेरस्ति पादादिसङ्गतिः । पूर्वपक्षे यज्ञादीनां विज्ञानान्वये तत्फलेऽपि तत्प्रसक्त्या समुच्चयसिद्धिः ।

सिद्धान्ते परम्परया तेषां ज्ञानान्वयेऽपि तत्फलान्वये हेत्वभावात्तदसिद्ध्या ज्ञानस्यैव तद्धेतुतासिद्धिरित्यङ्गीकृत्य पूर्वपक्षयति -

तत्रेति ।

अपरोक्षधियो मानमात्रायत्तत्वात्प्रामाणिकज्ञानस्य मानहेतुषु सत्सु कर्माद्यभावेनानुदयादर्शनात्केवलव्यतिरेकाभावे च यज्ञादीनां हेतुत्वकल्पनायोगाद्विविदिषाश्रुतेश्च वर्तमानापदेशित्वाद्विनियोजकत्वायोगाज्ज्ञानस्य फलवदुत्पत्तावपि नान्वयस्तेषामिति भावः ।

विविदिषावाक्ये वर्तमानापदेशेऽपि यस्य पर्णमयीत्यादाविवापूर्वत्वात्पञ्चमलकारेण ब्रह्मानुभवकामो यज्ञादीनि कुर्यादिति विध्युपगमादागमस्य केवलव्यतिरेकानपेक्षत्वाद्विषयसौन्दर्यलभ्यायामिच्छायां साक्षादन्वयायोगात्तत्फले ज्ञाने यज्ञाद्यन्वयसिद्धेर्यज्ञेनेत्यादिकरणश्रुत्या च तेषामिष्यमाणापरोक्षधीसाधनत्वदृष्टेर्ज्ञानस्य च मानायत्ततया साक्षाद्यज्ञाद्यसाधनत्वेऽपि तेषां चित्तशुद्ध्या प्रत्यक्प्रवणतामुत्पाद्यापरोक्षज्ञाने पर्यवसानात्पारम्पर्येऽपि पचति काष्ठैरितिवत्करणविभक्तिसम्भवादुत्पत्तौ ज्ञानस्य कर्मापेक्षास्तीति सिद्धान्तयति -

इदमिति ।

आपातेन पूर्वापरविरोधप्रतीतिं शङ्कते -

नन्विति ।

विभागोक्त्या प्रत्याह -

नेतीति ।

उक्तव्यवस्थायां प्रश्नपूर्वकं हेतुमाह -

कुत इति ।

हेतुं विवृणोति -

तथाहीति ।

नन्वत्र विविदिषासंयोगो यज्ञादीनां ज्ञायते यदि तस्यां विषयसौन्दर्यलभ्यायां तेषामन्वयायोगादिष्यमाणे ज्ञानेऽन्वयोऽभ्युपगम्यते तर्हि ज्ञानस्य मानाधीनत्वात्कर्मणां तत्रान्वयासिद्धेः श्रुतत्यागेन तत्फले मोक्षे किमित्यन्वयो नेष्यते, तत्राह -

विविदिषेति ।

मोक्षहेतुत्वकल्पनायां नास्त्यकृतः कृतेनेत्यादिविरोधात्परम्परयापि हेतुत्वे बाधाभावाद्बुद्धिशुद्ध्या तदुत्पत्तावेवान्वयो यज्ञादीनामित्यर्थः ।

यज्ञादिश्रुतेरिति वाक्यान्तरमपि ग्रहीतव्यमित्याह -

अथेति ।

तत्र यज्ञादीनां ज्ञानसाधनत्वे विज्ञातं लिङ्गमाह -

अत्रेति ।

तत्रैव लिङ्गान्तरमाह -

सर्व इति ।

परम्परया कर्मणां धीहेतुत्वे स्मृतिमपि दर्शयति -

स्मृतिरिति ।

उत्पत्ताविव फलेऽपि ज्ञानस्य कर्मापेक्षा किं न स्यादित्याशङ्क्य दृष्टान्तमादाय व्याकरोति -

अश्ववदित्यादिना ॥ २६ ॥