ज्ञानोत्पत्तौ बहिरङ्गमुक्त्वा तत्रैवान्तरङ्गमुपदिशति -
शमदमादीति ।
अत्र व्यावर्त्यां शङ्कामाह -
यदीति ।
विद्यास्तावकत्वेनापि सम्भवत्यर्थवत्त्वे वर्तमानताभङ्गेन विधिकल्पनमयुक्तं वाक्यभेदप्रसङ्गात् । अतः शब्दमात्रलभ्या विद्येति भावः ।
एवं तवाभिप्रायेऽपि हेत्वन्तरमवश्यमनुष्ठेयं न शब्दमात्रलभ्या विद्येति सूत्रयोजनया परिहरति -
तथापीति ।
विविदिषावाक्यतुल्यतया शमादिवाक्यस्य नास्ति विधिपरतेति शङ्कते -
नन्विति ।
यस्मादेवमात्मानं विदित्वा पापेन कर्मणा न लिप्यते तस्मादेवं विद्यार्थी शमाद्युपेतो भूत्वा विचारयेदिति गम्यते विधिरित्याह -
नेतीति ।
विध्यभावे तत्प्रशंसावैयर्थ्यादुक्तविधिसिद्धिरित्यर्थः ।
काण्वपाठे विधिमुक्त्वा माध्यन्दिनपाठे विध्यभावशङ्कापि नास्तीत्याह -
पश्येदिति चेति ।
विधिफलमाह -
तस्मादिति ।
यज्ञादीनामसाधनत्वशङ्कामापाततोऽभ्युपेत्य साधनान्तरापेक्षोक्ता ।
इदानीं तदसाधनत्वशङ्कापि न युक्तेत्याह -
यज्ञादीनीति ।
उक्तं स्मारयित्वा परिहरति -
नन्वित्यादिना ।
संयोगस्यापूर्वत्वमेव स्पष्टयति -
नहीति ।
सत्यपि महावाक्यैक्येऽनुष्ठानयोग्यापूर्वार्थविधिरवान्तरवाक्येन क्रियते न तत्र वाक्यभेदो दोष इत्यत्र पूर्वतन्त्रसंमतिमाह -
तस्मादिति ।
दर्शपूर्णमासयोः श्रुतं तस्मात्पूषेत्यादि । तत्र पूष्णः पिष्टद्रव्यसंवन्धः सामासिकः । नच पूषा देवता पिष्टभागो द्रव्यं दर्शपूर्णमासयोरस्ति तेन तदेकवाक्यतायोगात्कालत्रयास्पृष्टद्रव्यदेवतासम्बन्धस्याविनाभावेन यागविध्युपस्थापकत्वाद्व्यवहारसिद्धये विधिपदमध्याहृत्य प्रकरणादुत्कर्षेण पूषोद्देशेन पिष्टभागः कर्तव्य इति विकृतौ सम्बन्धः ‘पौष्णं पेषणं विकृतौ प्रतीयेताचोदनात्प्रकृतौ’ इत्यत्र विचारित इत्यर्थः ।
अवान्तरवाक्यभेेदेन सूत्रकृतापि स्वीकृतो विधिरित्याह -
तथाचेति ।
स्मृत्यनुसारेणाप्यवान्तरवाक्यस्य विधायकत्वं वाच्यमित्याह -
स्मृतिष्विति ।
कर्मणां ज्ञानोत्पत्तिहेतुत्वे श्रुतिस्मृतिन्यायसिद्धे फलितमाह -
तस्मादिति ।
यज्ञादीनामपि श्रुतिस्मृतिन्यायेभ्योऽनुष्ठेयत्वे शमादीनां तेभ्यो विशेषाभावाद्यावद्विद्योदयमविशेषेणानुष्ठानं स्यादित्याशङ्क्याह -
तत्रापीति ॥ २७ ॥