ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २८ ॥
प्राणसंवादे श्रूयते छन्दोगानाम् वा एवंविदि किञ्चनानन्नं भवति’ (छा. उ. ५ । २ । १) इतितथा वाजसनेयिनाम् वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतम्’ (बृ. उ. ६ । १ । १४) इतिसर्वमस्यादनीयमेव भवतीत्यर्थःकिमिदं सर्वान्नानुज्ञानं शमादिवत् विद्याङ्गं विधीयते, उत स्तुत्यर्थं सङ्कीर्त्यत इति संशयेविधिरिति तावत्प्राप्तम्तथा हि प्रवृत्तिविशेषकर उपदेशो भवतिअतः प्राणविद्यासन्निधानात् तदङ्गत्वेन इयं नियमनिवृत्तिरुपदिश्यतेननु एवं सति भक्ष्याभक्ष्यविभागशास्त्रव्याघातः स्यात्नैष दोषः, सामान्यविशेषभावात् बाधोपपत्तेःयथा प्राणिहिंसाप्रतिषेधस्य पशुसंज्ञपनविधिना बाधः, यथा काञ्चन परिहरेत्तद्व्रतम्’ (छा. उ. २ । १३ । २) इत्यनेन वामदेव्यविद्याविषयेण सर्वस्त्र्यपरिहारवचनेन सामान्यविषयं गम्यागम्यविभागशास्त्रं बाध्यतेएवमनेनापि प्राणविद्याविषयेण सर्वान्नभक्षणवचनेन भक्ष्याभक्ष्यविभागशास्त्रं बाध्येतेत्येवं प्राप्ते ब्रूमः

यज्ञादीनां शमादीनां च विद्यासंनिहितानां तच्छेषतोक्ता तत्प्रसङ्गाद्विद्यासंनिध्युक्तसर्वान्नाभ्यनुज्ञानस्यापि विद्याशेषतामाशङ्क्य प्रत्याह -

सर्वान्नेति ।

प्राणविदः सर्वान्नानुज्ञानं विषयं वक्तुं शाखाद्वायस्थां श्रुतिमाह -

प्राणेति ।

जग्धं भक्षितम् । विषयवाक्यार्थं सङ्गृह्णाति -

सर्वमिति ।

अपूर्वत्वाद्विध्यश्रुतेश्च संशयमाह -

किमिति ।

अत्र प्राणविद्यायाः स्वतन्त्रपुमर्थहेतोर्वाक्यार्थज्ञानोपयुक्तायाः स्तुत्यर्थं सर्वान्नानुज्ञानकीर्तनमिति कथनात्पादादिसङ्गतिः । पूर्वपक्षे प्राणविदो भक्ष्याभक्ष्यविभागासिद्धिः ।

सिद्धान्ते विदुषोऽविदुषश्चानापदि तत्सिद्धिरिति मन्वानः संशयमनूद्य पूर्वपक्षयति -

विधिरितीति ।

विधिपक्षेऽनुष्ठानविशेषलाभं हेतुमाह -

तथाहीति ।

सर्वान्नानुज्ञानं स्वतन्त्रमेव विधीयतामित्याशङ्क्य संनिधिविरोधान्मैवमित्याह -

अत इति ।

सर्वान्नात्तृत्वं प्राणविद्याङ्गं चेत्तर्हि न कलञ्जं भक्षयेदित्यादि शास्त्रं विरुध्येेतेति शङ्कते -

नन्विति ।

प्राणविदतिरिक्तविषयं तदिति विरोधं परिहरति -

नेत्यादिना ।

उपपत्तिमेव कर्मविषयदृष्टान्तेनोदाहरति -

यथेति ।

तत्रैव विद्याविषयं दृष्टान्तमाह -

यथाचेति ।

यदुपमन्त्रयते स हिंकार इत्यादिना ग्राम्यव्यापारगतचेष्टासु हिंकारादिदृष्टिर्विहिता सा वामदेव्यविद्या तत्रोपमन्त्रणं सङ्केतकरणम् ।

दृष्टान्तयोरर्थं दार्ष्टान्तिके योजयति -

एवमिति ।

विविदिषावाक्ये वर्तमानापदेशेऽप्यपूर्वत्वात्पञ्चमलकाराङ्गीकारेण विधिकल्पनवन्न हेत्यादौ वर्तमानापदेशेऽप्यपूर्वत्वाद्विधिरिति मतमनूद्य सूत्राद्बहिरेव सिद्धान्तमाह -

एवमिति ।