ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २८ ॥
नेदं सर्वान्नानुज्ञानं विधीयत इति हि अत्र विधायकः शब्द उपलभ्यते, वा एवंविदि किञ्चनानन्नं भवति’ (छा. उ. ५ । २ । १) इति वर्तमानापदेशात् असत्यामपि विधिप्रतीतौ प्रवृत्तिविशेषकरत्वलोभेनैव विधिरभ्युपगन्तुं शक्यतेअपि श्वादिमर्यादं प्राणस्यान्नमित्युक्त्वा, इदमुच्यतेनैवंविदः किञ्चिदनन्नं भवतीति श्वादिमर्यादमन्नं मानुषेण देहेनोपभोक्तुं शक्यतेशक्यते तु प्राणस्यान्नमिदं सर्वमिति विचिन्तयितुम्तस्मात् प्राणान्नविज्ञानप्रशंसार्थोऽयमर्थवादः, सर्वान्नानुज्ञानविधिःतद्दर्शयति — ‘सर्वान्नानुमतिश्च प्राणात्ययेइतिएतदुक्तं भवतिप्राणात्यय एव हि परस्यामापदि सर्वमन्नमदनीयत्वेनाभ्यनुज्ञायते, तद्दर्शनात्तथा हि श्रुतिः चाक्रायणस्य ऋषेः कष्टायामवस्थायाम् अभक्ष्यभक्षणे प्रवृत्तिं दर्शयति मटचीहतेषु कुरुषु’ (छा. उ. १ । १० । १) इत्यस्मिन् ब्राह्मणेचाक्रायणः किल ऋषिः आपद्गतः इभ्येन सामिखादितान्कुल्माषांश्चखादअनुपानं तु तदीयम् उच्छिष्टदोषात्प्रत्याचचक्षेकारणं चात्रोवाच वा अजीविष्यमिमानखादन्’ (छा. उ. १ । १० । ४) इति, कामो उदपानम्’ (छा. उ. १ । १० । ४) इति पुनश्च उत्तरेद्युः तानेव स्वपरोच्छिष्टान्पर्युषितान्कुल्माषान् भक्षयांबभूवइतितदेतत् उच्छिष्टोच्छिष्टपर्युषितभक्षणं दर्शयन्त्याः श्रुतेः आशयातिशयो लक्ष्यतेप्राणात्ययप्रसङ्गे प्राणसन्धारणाय अभक्ष्यमपि भक्षयितव्यमिति; स्वस्थावस्थायां तु तन्न कर्तव्यं विद्यावतापिइत्यनुपानप्रत्याख्यानाद्गम्यतेतस्मात् अर्थवादः वा एवंविदि’ (छा. उ. ५ । २ । १) इत्येवमादिः ॥ २८ ॥

तत्र हेतुमाह -

नहीति ।

यस्य पर्णमयीत्यादाविव वर्तमानापदेशेऽपि कल्प्यो विधिरित्याशङ्क्याह -

नचेति ।

सामान्यविधिबाधकत्वं श्रुतविशेषविधेरिष्टं विशेषकल्पना तु सामान्यविधिना बाध्या कल्पनाया विरोधाभावापेक्षत्वादित्यर्थः ।

इतश्च स्तुत्यर्थमेवेदं वचो न विधिरित्याह -

अपिचेति ।

आ श्वभ्य आ शकुनिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नमिति श्रवणादशक्यविषयो विधिर्न सम्भवतीत्याह -

नचेति ।

तर्हि वचनवैयर्थ्यमित्याशङ्क्य - सर्वं प्राणस्यान्नमिति धीस्तुत्यर्थत्वान्मैवमित्याह -

शक्यने त्विति ।

उक्तेऽर्थे सूत्रमादत्ते -

तदिति ।

तदक्षराणि व्याकरोति -

एतदिति ।

मटच्योऽशनयः पाषाणवृष्टयो रक्तवर्णाः क्षुद्रपक्षिविशेषा वा तैर्हतेषु कुरुषु तद्देशस्थसस्येष्विति यावत् ।

आख्यायिकार्थमाह -

चाक्रायण इति ।

स हि दुर्भिक्षे जाते जाययाऽनुपजातपयोधरादिस्त्रीव्यञ्जनया सह देशान्तरं प्रतिचक्रमे । स कदाचिदिभ्यग्रामे निवसन्निभ्येन सह हस्त्यारोहेण सामिभोजितानर्थभक्षितान्कुल्माषान्कुत्सितमाषान्भक्षितवानित्यर्थः ।

अनुपानं गृहाणेत्युक्ते सत्युच्छिष्टं मे पीतं स्यादिति प्रतिषिध्य किमेतेऽप्युच्छिष्टा नेति परेणोक्ते कारणं चानुपाननिषेधे कथितवानित्याह -

अनुपानं त्विति ।

कुल्माषाश्चेन्न भक्ष्यन्ते जीवनमेव मे न स्यात्कामः स्वेच्छातो मे तडागादिषूदकपानं भविष्यतीत्यर्थः ।

स्वयं खादित्वा शिष्टाञ्जायार्थमाजहार । तया च भर्तृस्वभावज्ञया निहितानुत्तरदिने प्रातरेव भक्षितवानित्याह -

पुनश्चेति ।

कुल्माषभक्षणश्रुतेरभिप्रायमाह -

तदिति ।

अनुपाननिषेधश्रुतेस्तात्पर्यमाह -

स्वस्थेति ।

सर्वान्नभक्षणस्य निरङ्कुशत्वाभावे फलितमाह -

तस्मादिति ॥ २८ ॥