ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अबाधाच्च ॥ २९ ॥
एवं सतिआहारशुद्धौ सत्त्वशुद्धिःइत्येवमादि भक्ष्याभक्ष्यविभागशास्त्रम् अबाधितं भविष्यति ॥ २९ ॥

तस्यार्थवादत्वे हेत्वन्तरमाह -

अबाधाच्चेति ।

सामान्यशास्त्रविरोधान्न कल्प्यो विशेषविधिरित्युक्तम् ।

अधुना सामान्यशास्त्रं दर्शयन्सूत्रं योजयति -

एवंचेति ।

स्वस्थावस्थायां भक्ष्याभक्ष्यभेदे सतीति यावत् ॥ २९ ॥