ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
सर्वथापि त एवोभयलिङ्गात् ॥ ३४ ॥
सर्वथापि आश्रमकर्मत्वपक्षे विद्यासहकारित्वपक्षे , एव अग्निहोत्रादयो धर्मा अनुष्ठेयाः । ‘ एवइत्यवधारयन्नाचार्यः किं निवर्तयति ? कर्मभेदशङ्कामिति ब्रूमःयथा कुण्डपायिनामयनेमासमग्निहोत्रं जुह्वतिइत्यत्र नित्यादग्निहोत्रात्कर्मान्तरमुपदिश्यते, नैवमिह कर्मभेदोऽस्तीत्यर्थःकुतः ? उभयलिङ्गात्श्रुतिलिङ्गात्स्मृतिलिङ्गाच्चश्रुतिलिङ्गं तावत्तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’ (बृ. उ. ४ । ४ । २२) इति सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुङ्क्ते, तुजुह्वतिइत्यादिवत् अपूर्वमेषां रूपमुत्पादयतीतिस्मृतिलिङ्गमपिअनाश्रितः कर्मफलं कार्यं कर्म करोति यः’ (भ. गी. ६ । १) इति विज्ञातकर्तव्यताकमेव कर्म विद्योत्पत्त्यर्थं दर्शयतियस्यैतेऽष्टाचत्वारिंशत्संस्काराः’ (गौ. ध. सू. १ । ८ । २५) इत्याद्या संस्कारत्वप्रसिद्धिः वैदिकेषु कर्मसु तत्संस्कृतस्य विद्योत्पत्तिमभिप्रेत्य स्मृतौ भवतितस्मात्साध्विदम् अभेदावधारणम् ॥ ३४ ॥

ननु प्रकरणान्तरस्थेभ्यो नित्यकर्मभ्यो भिन्नान्येव कर्माणि विविदिषावाक्ये विद्यासंयुक्ततया विधीयन्ते प्रकरणभेदस्य भेदकत्वात्तत्कथं तस्योभयत्वं, तत्राह -

सर्वथेति ।

प्रतिहां व्याचष्टे -

सर्वथापीति ।

एवकारव्यावर्त्यं शङ्कया दर्शयति -

त एवेतीति ।

भेदशङ्कानिवृत्ति व्यतिरेकदृष्टान्तेन स्पष्टयति -

यथेति ।

कुण्डपायिनामयनगताग्निहोत्रस्य प्रकरणभेदात्प्रसिद्धाग्निहोत्रात्कर्मान्तरत्ववद्विविदिषन्तीति विद्यासंयुक्ततया विहितानामपि कर्मणां प्रकरणभेदादेव कर्मान्तरत्वशङ्कायां दृष्टान्ते जुह्वतीतिहोमविधिश्रुतेर्मासाख्यकालस्य चानुपादेयत्वेनाविधेयत्वादग्निहोत्रशब्दस्य चाख्यातपारतत्र्यादाख्यातस्य च जुहोतेः संनिहितरूपवत्कर्म हित्वा व्यवहितनैयमिकाग्निहोत्रपरामर्शित्वायोगादाख्यातार्थवाचिनोऽग्निहोत्रशब्दस्यापि कर्मान्तरविषयत्वमेवेति युक्तम् । विविदिषावाक्ये तु विविदिषायामेव विधिश्रवणात्प्रसिद्धानामेव यज्ञादीनां यज्ञादिशब्दैरनुवादाद्विद्यासंयोगमात्रं विधीयते तेषामिति न कर्मान्तरतेत्यर्थः ।

उक्तमेवार्थं प्रश्नद्वारा हेतुमवतार्य स्फोरयति -

कुत इत्यादिना ।

प्रसिद्धकर्मसु संस्कारत्वप्रसिद्धिरपि तेषां चित्तमलनिरासेन ज्ञानोत्पत्तावुपकारकत्वमावेदयन्ती कर्माभेदं सूचयतीत्याह -

अष्टेति ।

गर्भाधानादयः सहधर्मचारिणीसंयोगान्ताश्चतुर्दश पञ्चमहायज्ञाः सप्त सोमसंस्थाः सप्त हविःसंस्थाः सप्त पाकसंस्था इति चत्वारिशत्संस्काराः । अनश्नन्संहिताध्ययनं प्रायणं कर्म जप उत्क्रमणं दैहिकं भस्मसमूहनमस्थिसञ्चयनं श्राद्धानीत्येवमष्टाचत्वारिशत्संस्काराः ।

कर्मभेदाशङ्कायोगे फलितमाह -

तस्मादिति ॥ ३४ ॥