ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अनभिभवं च दर्शयति ॥ ३५ ॥
सहकारित्वस्यैव एतदुपोद्बलकं लिङ्गदर्शनम्अनभिभवं दर्शयति श्रुतिः ब्रह्मचर्यादिसाधनसम्पन्नस्य रागादिभिः क्लेशैःएष ह्यात्मा नश्यति यं ब्रह्मचर्येणानुविन्दते’ (छा. उ. ८ । ५ । ३) इत्यादिनातस्मात् यज्ञादीन्याश्रमकर्माणि भवन्ति विद्यासहकारीणि चेति निश्चितम् ॥ ३५ ॥

नित्यानि कर्माणि स्वतः पुण्यलोकावाप्तिफलान्यपि ज्ञानकामेनानुष्ठितानि ज्ञानार्थानीत्युक्तम् । इदानीं ब्रह्मचर्यादीनामाश्रमकर्मणां क्लेशतनूकरणेन विद्योदये हेतुतेत्यत्र लिङ्गमाह -

अनभिभवं चेति ।

सूत्रस्य तात्पर्योक्तिपूर्वकमक्षरार्थं कथयति -

सहकारित्वस्येति ।

उभयविध्यधीनमर्थमुपसंहरति -

तस्मादिति ॥ ३५ ॥