आश्रमधर्मशून्यानां जपादिष्वपि शूद्रादिवन्नाधिकारोऽस्तीत्याशङ्क्याह -
तथाचेति ।
मैत्रो मित्रे भवः सर्वभूताहिंसको दयावानित्यर्थः ।
किञ्च नैयोगिकफलेषु कर्मस्वानन्तर्यस्याचोदितत्वादनियतकालत्वे नैयोगिककर्माभावेऽप्यामुष्मिकैरेव कर्मभिर्विद्या भविष्यतीति सूत्रस्य व्याख्यान्तरमाह -
जन्मान्तरेति ।
जन्मान्तरसञ्चितकर्मणां विद्यानुग्राहकत्वे मानमाह -
तथाचेति ।
अनेकेषु जन्मसु सञ्चितसंस्कारैः सिद्धः सम्यग्धीपरिपाकवानित्यर्थः ।
यथास्मिञ्जन्मन्यधीतवेदो धर्मजिज्ञासाधिकारी तथास्मिन्नेव जन्मन्याश्रमधर्मैरुत्पादितविविदिषो विद्याधिकारी स्यादित्याशङ्क्याह -
दृष्टार्थेति ।
अविद्यानिवृत्तेर्दृष्टफलत्वान्नियमापेक्षाभावाद्विघातकनिषेधस्याभावमात्रेण तत्र पुरुषस्य प्रवृत्तिरित्यर्थः ।
श्रुतिस्मृतिन्यायसिद्धमर्थमुपसंहरति -
तस्मादिति ॥ ३८ ॥