ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
विशेषानुग्रहश्च ॥ ३८ ॥
तेषामपि विधुरादीनाम् अविरुद्धैः पुरुषमात्रसम्बन्धिभिर्जपोपवासदेवताराधनादिभिर्धर्मविशेषैरनुग्रहो विद्यायाः सम्भवतितथा स्मृतिःजप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयःकुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते’ (म. स्मृ. २ । ८७) इति असम्भवदाश्रमकर्मणोऽपि जप्येऽधिकारं दर्शयतिजन्मान्तरानुष्ठितैरपि आश्रमकर्मभिः सम्भवत्येव विद्याया अनुग्रहःतथा स्मृतिःअनेकजन्मसंसिद्धस्ततो याति परां गतिम्’ (भ. गी. ६ । ४५) इति जन्मान्तरसञ्चितानपि संस्कारविशेषान् अनुग्रहीतॄन् विद्यायां दर्शयतिदृष्टार्था विद्या प्रतिषेधाभावमात्रेणापि अर्थिनमधिकरोति श्रवणादिषुतस्मात् विधुरादीनामप्यधिकारो विरुध्यते ॥ ३८ ॥

आश्रमधर्मशून्यानां जपादिष्वपि शूद्रादिवन्नाधिकारोऽस्तीत्याशङ्क्याह -

तथाचेति ।

मैत्रो मित्रे भवः सर्वभूताहिंसको दयावानित्यर्थः ।

किञ्च नैयोगिकफलेषु कर्मस्वानन्तर्यस्याचोदितत्वादनियतकालत्वे नैयोगिककर्माभावेऽप्यामुष्मिकैरेव कर्मभिर्विद्या भविष्यतीति सूत्रस्य व्याख्यान्तरमाह -

जन्मान्तरेति ।

जन्मान्तरसञ्चितकर्मणां विद्यानुग्राहकत्वे मानमाह -

तथाचेति ।

अनेकेषु जन्मसु सञ्चितसंस्कारैः सिद्धः सम्यग्धीपरिपाकवानित्यर्थः ।

यथास्मिञ्जन्मन्यधीतवेदो धर्मजिज्ञासाधिकारी तथास्मिन्नेव जन्मन्याश्रमधर्मैरुत्पादितविविदिषो विद्याधिकारी स्यादित्याशङ्क्याह -

दृष्टार्थेति ।

अविद्यानिवृत्तेर्दृष्टफलत्वान्नियमापेक्षाभावाद्विघातकनिषेधस्याभावमात्रेण तत्र पुरुषस्य प्रवृत्तिरित्यर्थः ।

श्रुतिस्मृतिन्यायसिद्धमर्थमुपसंहरति -

तस्मादिति ॥ ३८ ॥