वर्णोपाधावुक्तधर्ममात्रादपि विद्योत्पद्यते चेदाश्रमित्वमनर्थकमित्याशङ्क्याह -
अतस्त्विति ।
विद्यायाश्चिराचिरव्यक्तिहेतुतयाश्रमित्वानाश्रमित्वयोर्विशेषान्न वैयर्थ्यमिति मत्वा व्याचष्टे -
अत इति ।
साधनोपचयादचिरेण विद्याहेतुत्वं ज्यायस्त्वम् ।
आश्रमित्वस्य ज्यायस्त्वे श्रुतिस्मृत्यनुगृहीतत्वं हेतुमाह -
श्रुतीति ।
श्रुतौ पुण्यकृत्त्वविशेषणाल्लिङ्गाच्च श्रेष्ठमाश्रमित्वमित्याह -
श्रुतीति ।
तेन ज्ञानमार्गेण ब्रह्मविदेति गच्छति ब्रह्म प्राप्नोति । स च पुण्यं स्वाश्रमोक्तं कर्म करोतीति पुण्यकृदुच्यते । तेजसि परमात्मन्यात्मत्वेन वर्तत इति तैजसः । तत्र पुण्यकृत्त्वविशेपणादाश्रमित्वं ब्रह्मप्राप्तिहेतुतया श्रेष्ठं सिद्धमित्यर्थः ।
आश्रमित्वस्य श्रेष्ठत्वे स्मार्तमपि लिङ्गमनुकूलयति -
अनाश्रमीति ॥ ३९ ॥