ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ ३९ ॥
अतस्तु अन्तरालवर्तित्वात् इतरत् आश्रमवर्तित्वं ज्यायो विद्यासाधनम् , श्रुतिस्मृतिसन्दृष्टत्वात्श्रुतिलिङ्गाच्चतेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च’ (बृ. उ. ४ । ४ । ९) इतिअनाश्रमी तिष्ठेत दिनमेकमपि द्विजःसंवत्सरमनाश्रमी स्थित्वा कृच्छ्रमेकं चरेत्’(द॰स्मृ॰ १-१०) इति स्मृतिलिङ्गात् ॥ ३९ ॥

वर्णोपाधावुक्तधर्ममात्रादपि विद्योत्पद्यते चेदाश्रमित्वमनर्थकमित्याशङ्क्याह -

अतस्त्विति ।

विद्यायाश्चिराचिरव्यक्तिहेतुतयाश्रमित्वानाश्रमित्वयोर्विशेषान्न वैयर्थ्यमिति मत्वा व्याचष्टे -

अत इति ।

साधनोपचयादचिरेण विद्याहेतुत्वं ज्यायस्त्वम् ।

आश्रमित्वस्य ज्यायस्त्वे श्रुतिस्मृत्यनुगृहीतत्वं हेतुमाह -

श्रुतीति ।

श्रुतौ पुण्यकृत्त्वविशेषणाल्लिङ्गाच्च श्रेष्ठमाश्रमित्वमित्याह -

श्रुतीति ।

तेन ज्ञानमार्गेण ब्रह्मविदेति गच्छति ब्रह्म प्राप्नोति । स च पुण्यं स्वाश्रमोक्तं कर्म करोतीति पुण्यकृदुच्यते । तेजसि परमात्मन्यात्मत्वेन वर्तत इति तैजसः । तत्र पुण्यकृत्त्वविशेपणादाश्रमित्वं ब्रह्मप्राप्तिहेतुतया श्रेष्ठं सिद्धमित्यर्थः ।

आश्रमित्वस्य श्रेष्ठत्वे स्मार्तमपि लिङ्गमनुकूलयति -

अनाश्रमीति ॥ ३९ ॥