सिद्धान्तयति -
उपपूर्वमिति ।
उपपदं पूर्वं यस्य पतनस्य तदुपपूर्वमिति व्याकरोति -
अपि त्विति ।
प्रायश्चित्ताभावं व्यावर्तयितुमपीति प्रयुक्तम् ।
एवकारार्थमाह -
नेति ।
नैष्ठिकव्रतलोपस्योपपातकत्वेऽपि प्रायश्चित्तसत्त्वे किं जातमित्याशङ्क्योपपातकसामान्यप्रायश्चित्तं स्यादिति सूत्रावयवं व्याकुर्वन्नाह -
तस्मादिति ।
उक्तमर्थं दृष्टान्तमवतार्य स्पष्टयति -
अशनवदिति ।
प्रायश्चित्तं न पश्यामीति स्मरणात्कथं तद्भावधीरित्याशङ्क्याह -
ये हीति ।
प्रायश्चित्तं नास्तीति स्मरणाभावान्न पश्यामीति दर्शनाभावमात्रस्मरणादित्यर्थः ।
भाववादिनामपि तुल्या मूलानुपलब्धिरित्यशङ्क्याह -
ये त्विति ।
ननु न पश्यामीति स्मरणस्य प्रायश्चित्तनिषेधार्थत्वमनुमाय तदर्थश्रुतिकल्पनात्तद्विरोधे सामान्यश्रुत्या प्रायश्चित्तसत्ता नाभ्युपगम्यते, तत्राह -
तस्मादिति ।
यावद्दर्शनाभावस्मरणस्य प्रायश्चित्तनिषेधार्थत्वकल्पनया तदर्था श्रुतिरनुमीयते तावदविशेषप्रवृत्ता प्रायश्चित्तं श्रुतिर्गमयतीति न स्मृत्या प्रायश्चित्ताभावधीरिति भावः ।
उक्तेऽर्थे यववराहाधिकरणसंमतिमाह -
तदुक्तमिति ।
यवमयश्चरुर्वाराही उपानहावित्यत्र यववराहशब्दाभ्यां प्रियङ्गुकृष्णशकुनिग्रहो वा दीर्घशूकसूकरग्रहो वेति सन्देहे पूर्वपक्षमाह -
समेति ।
केचिद्दीर्घशूके यवशब्दं प्रयुञ्जते प्रियङ्गुषु चापरे वराहशब्दमपि सूकरे केचिदाहुः कृष्णशकुनौ चान्ये तेन प्रयोगसाम्यात्समा तुल्या विकल्पेन प्रतिपत्तिः स्यादित्यर्थः ।
सिद्धान्तमाह -
शास्त्रस्था वेति ।
वाशब्दः पक्षव्यावृत्त्यर्थः । या शास्त्रमूला धीः सैव ग्राह्या शास्त्रनिमित्तत्वात्तद्धर्मादिज्ञानस्य । शास्त्रं च यदा वान्या ओषधयो म्लायन्त्यथैते मोदमानास्तिष्ठन्ति वराहं गावोऽनुधावन्तीति च यववराहशब्दयोर्दीर्घशूकसूकरविषयम् । तस्माद्धीसाम्याभावाद्विकल्पासिद्धेर्या शास्त्रमूला प्रसिद्धिः सैव ग्राह्येति प्रथमे सिद्धम् । तथात्रापि शास्त्रमूलत्वात्प्रायश्चित्तभावप्रसिद्धेस्तत्सत्त्वमुक्तमित्यर्थः ।
प्रायश्चित्तं न पश्यामीति स्मृतेस्तर्हि का गतिः, तत्राह -
प्रायश्चित्तेति ।
एवं सति सामान्यश्रुत्या प्रायश्चित्तसत्त्वे निश्चिते सतीत्यर्थः । यदि कथञ्चिन्नैष्ठिकस्य ब्रह्मचर्यं लुप्येत तदा न प्रायश्चित्तं दृश्यते तेन नैष्ठिकेन ब्रह्मचर्ये यत्नवता भाव्यमिति तद्विषययत्नस्याप्रमादेन सदाकार्यतारूपं गौरवमुत्पादयितुं प्रायश्चित्ताभावस्मरणमित्यर्थः ।
नैष्ठिके हि दर्शितन्यायमितरयोरतिदिशति -
एवमिति ।
विशेषतोऽपि प्रायश्चित्तविधेस्तयोरस्ति प्रामादिके व्रतलोपे प्रायश्चित्तमित्याह -
वानप्रस्थ इति ।
दीक्षाभेदे व्रतलोपे प्रमादतो ब्रह्मचर्यभङ्गे कृच्छ्रं चरित्वा महाकक्षं बहुतृणकाष्ठं देशं वर्धयेदिति सम्बन्धः ।
कृच्छ्रं विशिनष्टि -
द्वादशेति ।
दिनत्रयमेकवारभोजनं दिनत्रयं रात्रिभोजनं दिनत्रयमयाचितं दिनत्रयमुपवासकरणमित्येवंरूपमित्यर्थः ।
परिव्राजकेऽपि प्रमादतो व्रतलोपे तुल्यं कृच्छ्रानुष्ठानमित्याह -
भिक्षुरिति ।
सोमस्य यज्ञाङ्गत्वात्तदभिवृद्धिमनादृत्य महाकक्षं वर्धयेदित्याह -
सोमेति ।
‘सर्वपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् । पुनः स पूतो भवति पङ्क्तिपावन एव च ॥ मनोवाक्कायजान्दोषांज्ञानोत्थांश्च प्रमादजान् । सर्वान्दहति योगाग्निस्तूलराशिमिवानलः ॥ उपपातकसङ्घेषु पातकेषु महत्सु च । प्रविश्य रजनीपादं ब्रह्मध्यानं समाचरेत् ॥ नित्यमेव तु कुर्वीत प्राणायामांस्तु षोडश । अपि भ्रूणहनं मासात्पुनन्त्यहरहःकृताः’ इत्यादि परिव्राजकविषयं शास्त्रं तेनाभिहितः संस्कारो ध्यानादिः स च कर्तव्यो भिक्षुणेत्याह -
स्वशास्त्रेति ।
ऊर्ध्वरेतसां प्रमादच्युतब्रह्मचर्याणां कृतप्रायश्चित्तानामधिकारोऽस्ति विद्यायामिति भावः ॥ ४२ ॥