ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ ४१ ॥
यदि नैष्ठिको ब्रह्मचारी प्रमादादवकीर्येत, किं तस्यब्रह्मचार्यवकीर्णी नैऋतं गर्दभमालभेतइत्येतत्प्रायश्चित्तं स्यात् , उत नेतिनेत्युच्यते; यदपि अधिकारलक्षणे निर्णीतं प्रायश्चित्तम् अवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात्’ (जै. सू. ६ । ८ । २२) इति, तदपि नैष्ठिकस्य भवितुमर्हतिकिं कारणम् ? आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनःप्रायश्चित्तं पश्यामि येन शुध्येत्स आत्महा’(अ॰पु॰ १६५-२३,२४) इति अप्रतिसमाधेयपतनस्मरणात् छिन्नशिरस इव प्रतिक्रियानुपपत्तेःउपकुर्वाणस्य तु तादृक्पतनस्मरणाभावादुपपद्यते तत्प्रायश्चित्तम् ॥ ४१ ॥

सम्प्रति प्रमादात्प्रत्यवरोहे प्रायश्चित्तमस्तीति वक्तुं पूर्वपक्षमाह -

नचेति ।

ऊर्ध्वरेतसोऽधीपूर्वच्युतब्रह्मचर्यं विषयस्तेषां किं नास्ति प्रायश्चित्तमुतास्तीति प्रायश्चित्ताभावस्मृतेर्महापातकेष्वनुक्तेश्च संशयमाह -

यदीति ।

प्रमादादित्यधीपूर्वच्युतब्रह्मचर्याणामेवोर्ध्वरेतसां प्रायश्चित्तचिन्तेयमिति द्योतयति । अवकीर्येत योनौ रेतः सिञ्चेत् । अवकीर्णं योनौ क्षिप्तं रेतोऽस्यास्तीत्यवकीर्णी । प्रमादाच्च्युतब्रह्मचर्याणामूर्ध्वरेतसां कृतप्रायश्चित्तानां कर्म विद्याहेतुरित्युक्त्या पादादिसङ्गतिः । पूर्वपक्षे प्रमादिनामूर्ध्वरेतसामात्यन्तिकादधःपातात्पुमर्थासिद्धिः ।

सिद्धान्ते तेषामपि प्रायश्चित्तेन पतनसमाधानात्तत्सिद्धिरित्युपेत्य पूर्वपक्षसूत्रमवतार्य योजयति -

उच्यत इति ।

तदेव षष्ठाध्याये निर्धारितं प्रायश्चित्तमुदाहरति -

अवकीर्णीति ।

ब्रह्मचार्यवकीर्णीत्यत्र पशुहोमार्थमाधानं कर्तव्यं किंवा लौकिकेष्वेवाग्निषु तत्कर्मेति सन्देहे पूर्वाधिकरणे ‘यदाहवनीये जुहोति तेन सूर्योऽस्याभीष्टः प्रीतो भवति’ इत्याहवनीयस्य सर्वहोमार्थत्वादाहवनीये तावदुपनयनहोमाः कार्या इति प्रापय्य जातपुत्रोऽग्नीनादधीतेति कृतदारस्याग्न्याधानविधानादुपनयनकाले दाराभावादाधानस्याप्राप्तकालत्वादाहवनीयाभावाल्लौकिकाग्निषूपनयनहोमा इति राद्धान्तिते ब्रह्मचारी ययाऽवकीर्णी सैव तस्य भार्या स्यात्ततोऽग्न्याधानमित्यधिकां शङ्कां निराकर्तुमतिदेशाधिकरणमवकीर्णिपशुश्चेति यथोपयनकाले लौकिकाग्नौ होमस्तथावकीर्णिपशुश्च तत्रैव होतव्यः । आधानस्य पत्नीपरिग्रहोत्तरकालतया पूर्वं प्राप्त्यभावादितरस्याश्च परपरिग्रहभूताया भार्यात्वकल्पनायाधाने मानाभावादित्यर्थः । यदधिकारलक्षणे निर्णीतमाधिकारिकं प्रायश्चित्तं तदपि नैष्ठिकस्य भवितुं नार्हतीति सम्बन्धः ।

प्रश्नपूर्वकं हेतुमाह -

किमित्यादिना ।

किंविषयं तर्हि प्रायश्चित्तवचनं ब्रह्मचारित्वाविशेषादुपकुर्वाणस्यापि तदयोगात् , तत्राह -

उपेति ।

तादृगित्यप्रतिसमाधेयत्वोक्तिः ॥ ४१ ॥