ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॥ ४० ॥
सन्ति ऊर्ध्वरेतस आश्रमा इति स्थापितम्तांस्तु प्राप्तस्य कथञ्चित् ततः प्रच्युतिरस्ति, नास्ति वेति संशयःपूर्वकर्मस्वनुष्ठानचिकीर्षया वा रागादिवशेन वा प्रच्युतोऽपि स्यात् विशेषाभावादित्येवं प्राप्ते, उच्यतेतद्भूतस्य तु प्रतिपन्नोर्ध्वरेतोभावस्य कथञ्चिदपि अतद्भावः, ततः प्रच्युतिः स्यात्कुतः ? नियमातद्रूपाभावेभ्यःतथा हिअत्यन्तमात्मानमाचार्यकुलेऽवसादयन्’ (छा. उ. २ । २३ । १) इति, ‘अरण्यमियादिति पदं ततो पुनरेयादित्युपनिषत्इति, आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् विमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि’(म॰भा॰ १२-२३४-४) इति एवंजातीयको नियमः प्रच्युत्यभावं दर्शयतियथा ब्रह्मचर्यं समाप्य गृही भवेत्’ (जा. उ. ४) ब्रह्मचर्यादेव प्रव्रजेत्’ (जा. उ. ४) इति एवमादीनि आरोहरूपाणि वचांस्युपलभ्यन्ते, नैवं प्रत्यवरोहरूपाणि चैवमाचाराः शिष्टा विद्यन्तेयत्तु पूर्वकर्मस्वनुष्ठानचिकीर्षया प्रत्यवरोहणमिति, तदसत्श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्’ (भ. गी. ३ । ३५) इति स्मरणात् , न्यायाच्चयो हि यं प्रति विधीयते तस्य धर्मः, तु यो येन स्वनुष्ठातुं शक्यतेचोदनालक्षणत्वाद्धर्मस्य रागादिवशात्प्रच्युतिः, नियमशास्त्रस्य बलीयस्त्वात्जैमिनेरपीति अपिशब्देन जैमिनिबादरायणयोरत्र सम्प्रतिपत्तिं शास्ति प्रतिपत्तिदार्ढ्याय ॥ ४० ॥

अनाश्रमिणां कर्मापि विद्याहेतुश्चेदारूढपतितस्य पूर्वाश्रमं प्राप्तस्य धीपूर्वकं प्रच्युतस्य कर्म किमु वाच्यमित्याशङ्क्याह -

तद्भूतस्येति ।

वृत्तानुवादेन विषयं सूचयति -

सन्तीति ।

तानाश्रमान्प्राप्तस्य धीपूर्वं प्रच्युतस्य कर्म विषयस्तत्किं विद्याहेतुर्न वेति संशयं सिद्धवत्कृत्य तद्धेतुमाह -

तांस्त्विति ।

कथञ्चिद्रागाद्युद्रेकादित्यर्थः । सा मानवती न वेति संशयार्थः । ऊर्ध्वरेतसां बुद्धिपूर्वं प्रच्युतानां कर्म यथोक्तविद्याहेतुर्नेत्युक्त्या पादादिसङ्गतिः । पूर्वपक्षे पूर्वोक्ताश्रमित्वश्रैष्ठ्यासिद्धिः ।

सिद्धान्ते प्रच्युतेरप्रामाणिकत्वात्तत्सिद्धिरिति स्वीकृत्य पूर्वपक्षयति -

पूर्वेति ।

पूर्वाश्रमोक्तो यागादिधर्मः सुखेन शक्योऽनुष्ठातुमिति तच्चिकीर्षया रागद्वेषवशेन च प्रत्यवरोहोऽपि प्रामाणिकः स्यात्तथाचानाश्रमिकर्म निन्दितमपि यथा विद्यासाधनमुक्तं तथा प्रत्यवरूढस्यापि कर्म विद्याहेतुराश्रमावरोहोऽनुष्ठेयस्तदारोहावरोहयोरन्यतरत्वात्तदारोहवदित्यवरोहस्य प्रामाणिकत्वादित्यर्थः ।

सिद्धान्तसूत्रमवतार्य व्याकरोति -

एवमिति ।

उत्तराश्रमं प्राप्तस्य पूर्वाश्रमप्राप्तिरप्रामाणिकीत्यत्र प्रश्नपूर्वकं हेतुत्रयमाह -

कुत इति ।

तत्र नियमं व्याचष्टे -

तथाहीति ।

अरण्यमित्येकान्तोपलक्षितमूर्ध्वरेतस्त्वं तदियाद्गच्छेदिति पदं शास्त्रमार्गस्ततस्तस्मादरण्यान्न पुनरेयात्पुनर्नागच्छेन्न प्रत्यवरोहेदित्युपनिषद्रहस्यमित्यर्थः ।

स्मार्तमपि नियमं कथयति -

आचार्येणेति ।

उक्तनियमतात्पर्यमाह -

एवमिति ।

अतद्रूपमप्रत्यवरोहं व्याकरोति -

यथाचेति ।

अभावं शिष्टाचाराभावं व्याचष्टे -

नचेति ।

परोक्तमनुमानमनूद्य स्मृतिविरोधेन दूषयति -

यत्त्विति ।

इतश्चानुमानमयुक्तमित्याह -

न्यायाच्चेति ।

यत्तु रागादिवशात्प्रत्यवरोहणमिति, तत्राह -

नचेति ।

ततो न पुनरित्यादि नियमशास्त्रम् । अवशिष्टं सूत्रावयवं व्याचष्टे -

जैमिनेरिति ।

अत्रेति प्रामाणिकप्रच्युत्यभावोक्तिः । उभयसम्प्रतिपत्तिफलमाह -

प्रतिपत्तीति ॥ ४० ॥

प्रत्यवरोहणमशास्त्रीयमित्युक्तम् ।