अङ्गोपास्तीनां याजमानत्वान्न स्वतन्त्रफलतेति प्राप्ते सिद्धान्तयति -
आर्त्विज्यमिति ।
तत्र प्रतिज्ञांं विभजते
नैतदिति ।
अन्यकर्तृकत्वे कथमन्यस्य फलमिति शङ्कते -
किं कारणमिति ।
सूत्रावयवेनोत्तरमाह -
तस्मै हीति ।
ऋत्विजो यजमानेन स्वगामिने फलाय क्रीतत्वान्नानुपपत्तिरित्यर्थः ।
साङ्गकर्मार्थं क्रीतत्वेऽपि ध्यानार्थमक्रीतत्वात्कथमुपास्तीनामृत्विक्कर्मत्वं, तत्राह -
तदिति ।
अङ्गोपास्तीनामधिकृताधिकारत्वे फलितमाह -
तस्मादिति ।
तासामृत्विक्कर्तृकत्वे श्रौतं लिङ्गमाह -
तथाचेति ।
तमुद्गीथाख्यं प्रणवं प्राणादिदृष्टिविशिष्टं बको नामतो दल्भस्यापत्यं दाल्भ्यो विदाञ्चकार विदितवान् । विदित्वा च नैमिशीयानां सत्रिणामुद्गातासीदित्यर्थः ।
पूर्वपक्षबीजमनुवदति -
यत्त्विति ।
उत्सर्गतो याजमानत्वेऽपि फलस्य वचनादपवादो यत्र नैवं तत्रोत्सर्गस्थितिरित्युक्तमित्याह -
नेत्यादिना ॥ ४५ ॥