ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ४५ ॥
नैतदस्तिस्वामिकर्माण्युपासनानीतिऋत्विक्कर्माण्येतानि स्युःइत्यौडुलोमिराचार्यो मन्यतेकिं कारणम् ? तस्मै हि साङ्गाय कर्मणे यजमानेन ऋत्विक् परिक्रीयतेतत्प्रयोगान्तःपातीनि उद्गीथाद्युपासनानि अधिकृताधिकारत्वात्तस्मात् गोदोहनादिनियमवदेव ऋत्विग्भिर्निर्वर्त्येरन्तथा तꣳ बको दाल्भ्यो विदाञ्चकार नैमिशीयानामुद्गाता बभूव’ (छा. उ. १ । २ । १३) इत्युद्गातृकर्तृकतां विज्ञानस्य दर्शयतियत्तूक्तं कर्त्राश्रयं फलं श्रूयत इतिनैष दोषः, परार्थत्वादृत्विजः अन्यत्र वचनात् फलसम्बन्धानुपपत्तेः ॥ ४५ ॥

अङ्गोपास्तीनां याजमानत्वान्न स्वतन्त्रफलतेति प्राप्ते सिद्धान्तयति -

आर्त्विज्यमिति ।

तत्र प्रतिज्ञांं विभजते

नैतदिति ।

अन्यकर्तृकत्वे कथमन्यस्य फलमिति शङ्कते -

किं कारणमिति ।

सूत्रावयवेनोत्तरमाह -

तस्मै हीति ।

ऋत्विजो यजमानेन स्वगामिने फलाय क्रीतत्वान्नानुपपत्तिरित्यर्थः ।

साङ्गकर्मार्थं क्रीतत्वेऽपि ध्यानार्थमक्रीतत्वात्कथमुपास्तीनामृत्विक्कर्मत्वं, तत्राह -

तदिति ।

अङ्गोपास्तीनामधिकृताधिकारत्वे फलितमाह -

तस्मादिति ।

तासामृत्विक्कर्तृकत्वे श्रौतं लिङ्गमाह -

तथाचेति ।

तमुद्गीथाख्यं प्रणवं प्राणादिदृष्टिविशिष्टं बको नामतो दल्भस्यापत्यं दाल्भ्यो विदाञ्चकार विदितवान् । विदित्वा च नैमिशीयानां सत्रिणामुद्गातासीदित्यर्थः ।

पूर्वपक्षबीजमनुवदति -

यत्त्विति ।

उत्सर्गतो याजमानत्वेऽपि फलस्य वचनादपवादो यत्र नैवं तत्रोत्सर्गस्थितिरित्युक्तमित्याह -

नेत्यादिना ॥ ४५ ॥