इतश्चोपास्तीनामृत्विक्कर्तृकत्वं यजमानगामिफलत्वं चेत्याह -
श्रुतेश्चेति ।
उत्सर्गतः श्रुतिलिङ्गैश्च सिद्धमर्थमुपसंहरति -
तस्मादिति ।
सिद्धे चोपास्तीनामृत्विक्कर्तृकत्वे तन्निर्धारणानियमन्यायेन स्वतंत्रफलत्वसिद्धिरिति भावः ॥ ४६ ॥