ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ४४ ॥
अङ्गेषूपासनेषु संशयःकिं तानि यजमानकर्माणि आहोस्वित् ऋत्विक्कर्माणीतिकिं तावत्प्राप्तम् ? यजमानकर्माणीतिकुतः ? फलश्रुतेःफलं हि श्रूयतेवर्षति हास्मै वर्षयति एतदेवं विद्वान्वृष्टौ पञ्चविधꣳ सामोपास्ते’ (छा. उ. २ । ३ । २) इत्यादितच्च स्वामिगामि न्याय्यम् , तस्य साङ्गे प्रयोगेऽधिकृतत्वात् , अधिकृताधिकारत्वाच्च एवंजातीयकस्यफलं कर्तरि उपासनानां श्रूयते — ‘वर्षत्यस्मै उपास्तेइत्यादिननु ऋत्विजोऽपि फलं दृष्टम् आत्मने वा यजमानाय वा यं कामं कामयते तमागायति’ (बृ. उ. १ । ३ । २८) इति, तस्य वाचनिकत्वात्तस्मात् स्वामिन एव फलवत्सु उपासनेषु कर्तृत्वम्इत्यात्रेय आचार्यो मन्यते ॥ ४४ ॥

अन्यस्मिन्पापकारिणि तेन व्यवहारादन्यस्य त्वपकारवदन्यस्मिन्नुपास्तिकर्तरि तेन व्यवहारात्फललक्षणोपकारमन्ययजमानस्य दर्शयन्पूर्वपक्षयति -

स्वामिन इति ।

कर्माङ्गसङ्गीन्युपासनानि विषयस्तेषूभयकर्तृकत्वधिया संशयमाह -

अङ्गेष्विति ।

शास्त्रीयाङ्गाश्रितोपास्तीनां स्वतन्त्रफलानामृत्विक्कर्तृकत्वेऽपि यजमानगामिफलत्वोक्तेरस्ति पादादिसङ्गतिः । पूर्वपक्षे कर्तृत्वभोक्तृत्वयोरैकाधिकरण्यासिद्धिः ।

सिद्धान्ते प्रकृतस्य कर्तुरस्वातन्त्र्यात्तस्य यजमानाधीनत्वात्तत्कर्तृत्वमपि तदधीनमित्यैकाधिकरण्यस्याविरुद्धतेति सिद्धवत्कृत्य प्रश्नपूर्वकं पूर्वपक्षमाह -

किमिति ।

तत्र हेतुं प्रश्नद्वारा दर्शयति -

कुत इति ।

फलश्रुतिमेव विशदयति -

फलं हीति ।

श्रुतमपि फलमृत्विग्गतं किं न स्यात् , तत्राह -

तच्चेति ।

तत्र हेतुः -

तस्येति ।

उद्गीथाद्युपास्तिविधीनां प्राप्तोद्देशनत्वात्क्रत्वधिकारिण एव प्राप्तेस्तस्यैवोद्देशनयोगात्तदाश्रितोपास्तीनां गोदोहनवदथिकृताधिकारत्वात्क्रत्वधिकारिण एव गोदोहनफलवद्विद्याफलेन सङ्गतिरित्याह -

अधिकृतेति ।

तथापि कथमुपास्तीनां याजमानत्वं, तत्राह -

फलं चेति ।

अकर्तृत्वे फलित्वमपि यजमानस्य न स्यात्कर्तृत्वभोक्तृत्वयोरैकाधिकरण्यादित्यर्थः ।

यजमानगामि फलमित्यत्र व्यभिचारं शङ्कते -

नन्विति ।

उत्सर्गतो याजमानं फलं वचनात्क्वचिदपवादः स्यादित्याह -

न तस्येति ।

वाचनिकापवादाभावे तूत्सर्गस्थितिरित्युपसंहरति -

तस्मादिति ॥ ४४ ॥