ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ ४७ ॥
तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्बाल्यं पाण्डित्यं निर्विद्याथ मुनिरमौनं मौनं निर्विद्याथ ब्राह्मणः’ (बृ. उ. ३ । ५ । १) इति बृहदारण्यके श्रूयतेतत्र संशयःमौनं विधीयते, वेति विधीयत इति तावत्प्राप्तम् , ‘बाल्येन तिष्ठासेत्इत्यत्रैव विधेरवसितत्वात् हिअथ मुनिःइत्यत्र विधायिका विभक्तिरुपलभ्यतेतस्मादयमनुवादो युक्तःकुतः प्राप्तिरिति चेत्मुनिपण्डितशब्दयोर्ज्ञानार्थत्वात्पाण्डित्यं निर्विद्यइत्येव प्राप्तं मौनम्अपि अमौनं मौनं निर्विद्याथ ब्राह्मणःइत्यत्र तावत् ब्राह्मणत्वं विधीयते, प्रागेव प्राप्तत्वात्तस्मात्अथ ब्राह्मणःइति प्रशंसावादः, तथैवअथ मुनिःइत्यपि भवितुमर्हति, समाननिर्देशत्वादित्येवं प्राप्ते ब्रूमः

विधुरप्रभृतीनां मन्दाधिकारिणां धीसाधनोक्तिप्रसङ्गेनाङ्गोपासनमधमधीसाधनमेव निर्धार्य पुनरुक्तमेव धीसाधनं वक्तुमारभते -

सहकार्यन्तरेति ।

विषयवाक्यमुदाहरति -

तस्मादिति ।

यस्मात्पूर्वे ब्राह्मणा विदित्वात्मानमेषणाभ्यो व्युत्थाय भिक्षाचर्यं चरन्ति स्म तस्मादधुनातनोऽपि ब्राह्मणः पाण्डित्यं पण्डाऽध्ययनजा ब्रह्मबुद्धिस्तद्वान्पण्डितस्तस्य कृत्यं पाण्डित्वं श्रवणं तन्निर्विद्य निश्चयेन लब्ध्वा बाल्येन ज्ञानबलभावेन युक्तितोऽसम्भावनानिरासरूपमननेन शुद्धधीत्वेन वा तिष्ठासेत्स्थातुमिच्छेत् । उक्तदार्ढ्यार्थं बाल्यं चेत्यादिरनुवादः । श्रवणमननानन्तरं मुनिर्मननशीलो निदिध्यासनपरः स्यात् । मौनादन्यद्बाल्यं पाण्डित्यं चामौनं मौनं च निदिध्यासनं निश्चयेन लब्ध्वोक्तहेतुत्रयस्य ब्रह्मधीहेुत्वाद्ब्रह्माहमित्यवगच्छतीति ब्राह्मणः साक्षात्कृतब्रह्मा भवतीत्यर्थः ।

तत्र श्रुतं मौनं विषयीकृत्य मौनशब्दस्य सिद्धे पारिव्राज्ये साध्ये च ज्ञानाभ्यासे प्रयोगसिद्धेः संशयमाह -

तत्रेति ।

निरुपाधिविद्यान्तरङ्गसाधनमौनविधिसाधनात्पादादिसङ्गतिः । पूर्वपक्षे मौनस्यानुष्ठेयत्वासिद्धिः ।

सिद्धान्ते तस्यानुष्टेयत्वसिद्धिरिति मत्वा तं हेत्वादिवाक्यशेषादङ्गोपासनमृत्विक्कर्मेति वदथ ब्राह्मण इति विधिहीनवाक्यशेषादथ मुनिरित्येषोऽपि न विधिरिति पूर्वपक्षयति -

नेत्यादिना ।

ननु बाल्येनेत्युपक्रमे विधिश्रुतेर्मौनेऽपि विधिस्तु नेत्याह -

बाल्येनेति ।

तदेवोपपादयति -

नहीति ।

यद्यत्रापि विधेयत्वं तर्हि विधिः श्रूयेत बाल्यवन्न च श्रूयतेऽतः श्रोतव्यत्वे सत्यश्रवणाद्विध्यभावसिद्धिरित्यर्थः ।

तर्हि मौनवाक्यस्य का गतिः, तत्राह -

तस्मादिति ।

अनधिगतस्यानुवादायोगादन्यत्र विध्यनुपलब्धेर्विधिरेवायमिति शङ्कते -

कुत इति ।

पाण्डित्यविधानादेव मौनमपि सिद्धं तस्यैव मौनत्वादित्याह -

मुनीति ।

मुनिशब्दस्य भिक्षुवचनत्वेऽपि तस्यान्यत्र विधानादत्रानुवाद एवेति मत्वा मौनस्याविधेयत्वे हेत्वन्तरमाह -

अपिचेति ।

एकवाक्यतानुरोधान्मौनवाक्येऽपि न विधिरित्यर्थः । यदा पाण्डित्येन मौनस्य प्राप्तिस्तदा विधीयमानबाल्यस्येत्थं प्रशंसा । नहि पाण्डित्यं स्वरूपेण ज्ञानं किन्तु बाल्येऽनुष्ठितेऽनन्तरं मननापरपर्यायं पाण्डित्यं कृतं स्यात्त्स्माद्बाल्यं प्रशस्तम् ।

यदा मौनस्योत्तमाश्रमस्य विध्यन्तरप्राप्तस्यानुवादस्तदा बाल्यमात्रानुष्ठानवानुत्तमाश्रमित्वेन स्तूयत इति व्यक्ता स्तुतिरिति मत्वाह -

तस्मादिति ।

बाल्यपाण्डित्यातिरिक्तस्य मौनस्याविधेयत्वान्न तन्मुमुक्षोरनुष्ठेयमिति प्राप्तं पक्षमनूद्य सिद्धान्तमाह -

एवमिति ।